________________
अध्ययनं १
उद्देशकः२
नामंठवणापुढवी दव्वपुढवी य भावपुढवी य । एसो खलु पुढवीए निक्खेवो चउविहो होइ ॥ ६ ॥ श्रीआचा
A स्पष्टा, नामस्थापने क्षुण्णत्वादनादृत्याहराङ्गवृत्तिः
दव्यं सरीरभविओ भावेण य होइ पुढविजीवो उ । जो पुढविनामगोयं कम्मं वेएइ सो जीवो ॥७॥ (शौलाका.)
द्रव्यपथिवी आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु पृथिवीपदार्थज्ञस्य शरीरं जीवापेतं तथा पृथिवीपदार्थज्ञत्वेन भव्यो-बालादिस्ताभ्यां विनिमुक्तो द्रव्यप्रथिवीजीव:-एकमविको बद्धायुप्कोऽभिमुखनामगोत्रश्च, भावपृथिवीजीवः पुनर्यः पृथिवीनामादिकर्मोदीर्ण वेदयति । गतं निक्षेपद्वारं, साम्प्रतं प्ररूपणाद्वारम्दुविहा य पुढविजीवा मुटुमा तह बायरा य लोगंमि। सुहमा य सव्वलोए दो चेव य बायरविहाणा ॥१॥
पृथिवीजीवा द्विविधाः-सूक्ष्मा पादराश्च, सूक्ष्मनामकर्मोदयात् सूक्ष्माः, बादरनामकर्मोदयात्तु बादराः, कर्मोदयजनिते एवेषां सूक्ष्मवादरत्वे न त्वापेक्षिके बदरामलकयोरिव ॥ तत्र सूक्ष्माः समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत् सर्वलोकव्यापिनः, बादरास्तु मृलमेदाद्विविधा इत्याहदुविहा वायरपुढवी समासओ सण्हपुढवि खरपुडवी | सण्हा य पंचवण्णा अवरा छत्तीसइविहाणा ॥७२॥
'समासतः' संक्षेपाद्विविधा बादरपृथिवी-श्लक्षणवादरपथिवी खरवादरपृथिवी च, तत्र श्लक्ष्णबादरपथिवी कृष्णनीललोहितपीतशुक्लभेदात्पश्चधा, इह च गुणमेदाद्गुणिमेदोऽभ्युपगन्तव्यः, खरबादरपथिव्यास्त्वन्येऽपि षट्त्रिंशद्विशेषभेदाः सम्भवन्तीति ॥ तानाह