________________
॥५५॥
॥ अथ प्रथमाध्ययने द्वितीयोद्देशकः ॥ उक्तः प्रथमोद्देशकः साम्प्रतं द्वितीयः प्रस्तूयते-अस्य चायमभिसम्बन्धः-प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसाधितम्, इदानीं तस्यैवेकेन्द्रियादिपृथिव्याद्यस्तित्वप्रतिपिपादयिषयाऽऽह-यदिवा प्राक् परिज्ञातकर्मत्वं मुनित्वकारणमुपादेशि, यः पुनरपरिज्ञातकर्मत्वान्मुनिन भवति-विरतिं न प्रतिपद्यते स पृथिव्यादिषु बम्भ्रमति, अथ क एते पृथिव्यादय इत्यतस्तद्विशेषास्तित्वज्ञापनार्थमिदमुपक्रम्यत इति । अनेनाभिसम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपे पृथिव्युद्देशक इति, तत्रोद्देशकस्य निक्षेपादेरन्यत्र प्रतिपादितत्वान्नेह प्रदर्श्यते, पथिव्यास्तु यनिक्षेपादि सम्भवति तनियुक्तिकृद्दर्शयितुमाहपुढवीए निक्खेवो परूवणालक्खणं परीमाणं । उवभोगो सत्थं वेयणा य वहणा निविती य ॥ ६८ ॥
प्रागजीवोद्देशके जीवस्य प्ररूपणा किं न कृतेत्येतच्च नाशकनीयं, यतो जीवसामान्यस्य विशेषाधारत्वात् विशेषस्य च पृथिव्यादिरूपत्वात् सामान्यजीवस्य चौपभोगादेरसम्भवात् पृथिव्यादिचर्चयैव तस्य चिन्तितत्वादिति । तत्र पृथिव्या नामादिनिक्षेपो वक्तव्यः, प्ररूपणा-सूक्ष्मवादरादिभेदा, लक्षणं-साकारानाकारोपयोगकाययोगादिकं, परिमाणं-संवर्तितलोकप्रतरासंख्येयभागमात्रादिकम्, उपभोगः-शयनासन चङ्क्रमणादिकः, शस्त्रं-स्नेहाम्लक्षारादि, वेदना-स्वशरीराव्यक्तचेतनानुरूपा सुखदुःखानुभवस्वभावा, वधा-कृतकारितानुमतिभिरुपमईनादिका, निवृत्तिः-अप्रमत्तस्य मनोवाकायगुत्याऽनुपमर्दादिकेति समासार्थः । व्यासार्थ तु नियुक्तिकृद्यथाक्रममाह