________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
॥ ५४ ॥
'एआवन्ती सव्वावन्ती' ति एतौ द्वौ शब्दौ मागधदेशी भाषाप्रसिद्ध्या एतावन्तः सर्वेऽपीत्येतत्पर्यायौ, एतावन्त एव सर्वस्मिन् 'लोके' धर्माधर्मास्तिकायावच्छिन्ने नभःखण्डे ये पूर्व प्रतिपादिताः 'कर्म्मसमारम्भाः' क्रियाविशेषाः, नैतेभ्योऽधिकाः केचन सन्तीत्येवं परिज्ञातव्या भवन्ति, सर्वेषां पूर्वत्रोपादानादिति भावः तथाहि - आत्मपरोभयैहिकामुष्मिकातीतानागतवर्त्तमानकालकृतकारितानुमतिभिरारम्भाः क्रियन्ते ते च सर्वेऽपि प्रागुपात्ता यथासम्भवमायोज्या इति ॥ १२ ॥ एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमर्द्दकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदश्यपसंहारद्वारेण विरतिं प्रतिपादयन्नाहजस्सेते लोगंसि कम्मसमारंभा परिण्णाया भवंति से ह मुणी परिण्णायकम्मे तिबेमि ॥ सू० १३ ॥ ॥ इति प्रथमाध्ययने प्रथमो उद्देशकः ॥ १-१ ॥
भगवान् समस्तवस्तुवेदी केवलज्ञानेन साचादुपलभ्यैवमाह - 'यस्य' मुमुक्षोः 'एते' पूर्वोक्ताः 'कर्मसमारम्भाः ' क्रिया-विशेषाः कर्मणो वा - ज्ञानावरणीयाद्यष्टप्रकारस्य समारम्भा उपादान हेतवस्ते च क्रियाविशेषा एव परि-समन्तात् ज्ञाताः - परिच्छिन्नाः कर्मबन्धहेतुत्वेन भवन्ति, हुरवधारणे, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः स एव मुनिर्झपरिज्ञया परिज्ञातकर्मा प्रत्याख्यान परिज्ञया च प्रत्याख्यात कर्म्मबन्धहेतुभूतसमस्त मनोवाक्कायव्यापार इति, अनेन च मोक्षाङ्गभूते ज्ञानक्रिये उपात्ते भवतो, न ह्याभ्यां विना मोक्षो भवति, यत उक्तम् — “ज्ञान क्रियाभ्यां मोक्ष” इति । इतिशब्द एतावानयमात्मपदार्थविचारः कर्मबन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इति प्रदर्शकः, यदिवा 'इति' एतदहं ब्रवीमि यत्प्रागुक्तं यच्च वश्ये तत्सर्वं भगवदन्तिके साक्षात् श्रुत्वेति शस्त्रपरिज्ञायां प्रथमोद्देशकः समाप्तः ॥
● अध्ययनं १ उद्देशकः १
॥ ५४ ॥