________________
॥५१॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अनेनातीतानागतोपादानेन तन्मध्यवर्तिनो वर्तमानस्य कारितानुमत्योचोपसङ्ग्रहान्नवापि भेदा आत्मपरिणामत्वेन योगरूपा उपात्ता द्रष्टव्याः, तत्रानेनात्मपरिणामरूपेण क्रियाविशेषेण 'चन्धचिन्ता कृता भवति' बन्धस्योपादानमुपातं भवति, 'कर्म योगनिमित्तं बध्यते' इति वचनात् , एतच्च कश्चिजानाति आत्मना सह या सन्मतिः स्वमतिर्वा-अवधिमनःपर्यायकेवलजातिस्मरणरूपा तया जानाति, कश्चिच्च पक्षधर्मान्वयव्यतिरेकलक्षणया हेतुयुत्तयेति । अथ किमर्थमसौ कटुकविपाकेषु कर्माश्रवहेतुभूतेषु क्रियाविशेषेषु प्रवत्तत इत्याहइमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमो(भो)यणाए दुक्खपडिघायहे ॥ सू०११॥
तत्र जीवितमिति-जीवन्त्यनेनायुःकर्मणेति जीवितं-प्राणधारणम्, तच्च प्रतिप्राणि स्वसंविदितमितिकृत्वा प्रत्यक्षासनवाचिनेदमा निर्दिशति, चशब्दो वक्ष्यमाणजात्यादिसमुच्चयार्थः, एवकारोऽवधारणे, अस्यैव जीवितस्यार्थे परिफल्गुसारस्य तडिल्लताविल सितचञ्चलस्य बद्दपायस्य दीर्घसुखार्थ क्रियासु प्रवर्तते, तथाहि-जीविष्याम्यहमरोगः सुखेन भोगान् भोक्ष्ये ततो व्याध्यपनयनाथ स्नेहापानलावकपिशितभक्षणादिषु क्रियासु प्रवर्तते, तथाऽल्पस्य सुखस्य कृते अभिमानग्रहाकुलितचेता बह्वारम्भपरिग्रहाद्वह्वशुभं कर्मादत्ते, उक्तं च-"वे वाससी प्रवरयोषिदपायशुद्धा, शय्याऽऽसनं करिवरस्तुरगो रथो वा। काले भिषग्नियमिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् ॥ १॥ पुष्टयर्थमन्नमिह यत्प्रणिधिप्रयोगः, संत्रासदोषकलुषो नपतिस्तु भुकते। यनिर्भयः प्रशमसौख्यरतिश्च भैक्षं, तत् स्वादुतां भृशमुपैति न पार्थिवान्नम् ॥२॥ भृत्येषु मन्त्रिषु, सुतेषु
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
-॥५१॥