________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥५२॥
मनोरमेषु, कान्तासु वा मधुमदाङकुरितेक्षणासु। विश्रम्भमेति न कदाचिदपि क्षितीशः, सर्वाभिशडितमतेः कतरत्तु सौख्यम् ॥ ३॥" तदेवमनवबुद्धतरुणकिशलयपलाशचञ्चलजीवितरतयः कर्माश्रवेषु जीवितो
अध्ययनं १ पमर्दादिरूपेषु प्रवर्तन्ते, नथाऽस्यैव जीवितस्य परिवन्दनमाननपूजनार्थ हिंसादिषु प्रवर्तन्ते, तत्र परिवन्दनं' संस्तवः उद्देशकः १ प्रशंसा तदर्थमाचेष्टते, तथाहि-अहं मयूरादिपिशिताशनाद्वली तेजसा देदीप्यमानो देवकुमार इव लोकानां प्रशंसास्पदं । भविष्यामीति माननम्' अभ्युत्थानासनदानाञ्जलिप्रग्रहादिरूपं तदर्थ वा चेष्टमानः कर्माचिनोति तथा पूजनं पूजाद्रविणवस्त्रानपानसत्कारप्रणामसेवाविशेषरूपं तदर्थ च प्रवर्त्तमानः क्रियासु कर्माश्रवैरात्मानं सम्भावयति, तथाहि'वीरभोग्या वसुन्धरे'ति मत्वा पराक्रमते, दण्डभयाच मर्या प्रजा बिभ्यतीति दण्डयति, इत्येवं राज्ञामन्येषामपि यथासम्भवमायोजनीयम्, अत्र च वन्दनादीनां द्वन्द्वसमासं कृत्वा तादयें चतुर्थी विधेया, परिवन्दनमाननपूजनाय जीवितस्य कर्माश्रवेषु प्रवर्त्तन्त इति समुदायार्थः । न केवलं परिवन्दनाद्यर्थमेव कर्मादत्ते, अन्यार्थमप्यादत्त इति दर्शयतिजातिश्च मरणं च मोचनं च जातिमरणमोचनमिति समाहारद्वन्द्वात्तादर्थ्य चतुर्थी, एतदर्थ च प्राणिनः क्रियासु प्रवर्त्तमानाः कर्माददते, तत्र जात्यर्थ'क्रौञ्चारिवन्दनादिकाः क्रिया विधत्ते, तथा यान यान् कामान् ब्राह्मणादिभ्यो ददाति 8 तांस्तानन्यजन्मनि पुनर्जातो मोक्ष्यते, तथा मनुनाऽप्युक्तम्-'वारिदस्तप्तिमाप्नोति, सुखमक्षयमन्नदः । तिलपदः प्रजामिष्टामायुष्कमभयप्रदः ॥११॥" अत्र चैकमेव सुभाषितम्-'अभयप्रदान' मिति तुषमध्ये कणि१ कार्तिकेयः
॥५२॥