________________
श्रीआचा राङ्गवृत्तिः (शीलाङ्का.)
॥५०॥
वतोऽपि दृढमोहनीयस्स । कुपथाकुलेऽहंदुक्तोऽतिदुर्लभो जगति सन्मार्गः ॥ ११॥" यदि वा योऽयं ।
अध्ययनं १ पुरुषः सर्वा दिशोऽनुदिशश्चानुसञ्चरति तथाऽनेकरूपा योनीः सन्धावति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयति, सः 'अविज्ञातकर्मा' अविज्ञातम्-अविदितं कर्म-क्रिया व्यापारो मनोवाकायलक्षणः, अकार्षमहं करोमि करिष्यामीत्येवंरूपः उद्देशकः १ जीवोपमर्दात्मकत्वेन बन्धहेतुः सावधो येन सोऽयमविज्ञातकर्मा, अविज्ञातकर्मत्वेन च तत्र तत्र कर्मणि जीवोपमर्दादिके प्रवर्त्तते येन येनास्याष्टविधकर्मबन्धो भवति, तदुदयाच्चानेकरूपयोन्यनुसन्धान विरूपरूपस्पर्शानुभवश्च भवतीति ।। ६॥ यद्येवं ततः किमित्यत आह
तत्थ खलु भगवता परिण्णा पवेइआ॥ सू० १०॥ 'तत्र' कर्मणि ब्यापारे अकामहं करोमि करिष्यामीत्यात्मपरिणतिस्वभावतया मनोवाक्कायव्यापाररूपे 'भगवता' वीरवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता, एतच्च सुधर्मस्वामी जम्बूस्वामिनाम्ने कथयति, सा च द्विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च, तत्र ज्ञपरिज्ञया सावधव्यापारेण बन्धो भवतीत्येवं । भगवता परिज्ञा प्रवेदिता, प्रत्याख्यानपरिज्ञया च सावद्ययोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा चेति ॥ अमुमेवार्थ नियुक्तिकृदाहतत्थ अकारि करिस्संति पंधचिंता कया पुणो होइ । सहसम्मइया जाणइ कोइ पुण हेतुजुत्तीए ॥ ६७॥in
॥५०॥ 'तत्र' कर्मणि क्रियाविशेषे, किम्भूत इत्याह-'अकारि करिस्संति' अकारीति कृतवान् करिस्सन्ति-करिष्यामीति,