SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ॥४ ॥ पनिपाताननुभवतीत्युक्तं भवति, स्पर्शग्रहणं चेह सर्वसंसारान्तर्वर्तिजीवराशिसङ्ग्रहार्थ', स्पर्शनेन्द्रियस्स सर्वजीवव्यापित्वाद, अ(त)त्रेदमपि वक्तव्यं-सर्वान्विरूपरूपान् रसगन्धरूपशब्दान् प्रतिसंवेदयतीति, विरूपरूपत्वं च स्पर्शानां कार्यभूतानां विचित्रकर्मोदयात्कारणभृताद्भवतीति वेदितव्यं, विचित्रकर्मोदयाच्चापरिज्ञातकर्मा संसारी स्पर्शादीन्विरूपरूपांस्तेषु तेषु योन्यन्तरेषु विपाकतः परिसंवेदयतीति, आह च-"तः कमभिः स जीवो विवशः संसारचक्रमुपयाति । द्रव्यक्षेत्राडाभावभिन्नमावर्त्तते बहुशः ॥१॥ नरकेषु देवयोनिषु तिर्यग्योनिषु च मनुजयोनिषु च । पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरोराणि ॥ २॥ सततानुषडमुक्तं दुःखं नरकेषु तीनपरिणामम् । निर्यक्षु भयनुत्तुड्वधादिदुःखं सुखं चाल्पम् ॥ ३॥ सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे । सुखमेव हि देवाना दुःखं स्वल्पं च मनसि भवम् ॥ ४ ॥ कर्मानुभावदुःखित एवं मोहान्धकारगहनवति । अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे ॥ ५॥ दु:खप्रतिक्रियार्थ सुखाभिलाषाच पुनरपि तु जीवः । प्राणिवधादीन दोषानधितिष्ठति मोहसंछन्नः ॥६॥ बध्नाति ततो बहविधमन्यत्पुनरपि नवं सुबहु कर्म । तेनाथ पच्यते पुनरग्नेरग्नि प्रविश्येव ॥७॥ एवं कर्माणि पुनः पुनः स बध्नस्तथैव मुञ्चश्च । सुखकामो बहुदुःखं संसारमनादिकं भ्रमति ॥ ८॥ एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् । ससारमहत्त्वाधार्मिकत्वदुष्कर्मबाहुल्यैः ॥ ९॥ आर्यो देशः कुलरूपसम्पदायुश्च दीर्घमारोग्यम् । यतिसंसर्गः श्रद्धा धर्मश्रवणं च मनितक्ष्ण्यम् ॥ १० ॥ एतानि दुर्लभानि प्राप्त ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥४४॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy