________________
श्रीआचाराङ्गवृत्तिः (शीलाका.)
॥४४॥
वदितुशील मस्येति, अनेन चात्माद्वैतवादिनिरासेनात्मबहुत्वमुक्तं, यदिवा 'लोकापाती'ति लोकः-चतुर्दशरज्ज्वात्मकः प्राणिगणो वा, तत्रापतितुशीलमस्येति, अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञाऽऽवेदिता, तत्र च(तत्रैव) जीवास्ति
अध्ययन कायस्य सम्भवेन जीवानां गमनागमनमावेदितं भवति, य एव च दिगादिगमनपरिज्ञानेनात्मवादी लोकवादी च संवृत्तः, उद्देशकः १ स एवासुमान् 'कर्मवादी' कर्मज्ञानावरणीयादि तद्वदितु शीलमस्येति, यतो हि प्राणिनो मिथ्यात्वाविरतिप्रमादकपाययोगैः पूर्व गत्यादियोग्यानि कर्माण्यददते, पश्चात्तासु तासु विरूपरूपासु योनिषूत्पद्यन्ते, कर्म च प्रकृतिस्थित्यनुभावप्रदेशात्मकमवसेयमिति । अनेन च कालयदृच्छानियतीश्वरात्मवादिनो निरस्ता द्रष्टव्याः। तथा य एव कर्मवादी स एव क्रियावादी, यतः कर्म योगनिमित्तं बध्यते, योगश्च व्यापारः, स च क्रियारूपः, अतः कर्मणः कार्यभृतस्य वदनातत्कारणभृतायाः क्रियाया अप्यसावेव परमार्थतो वादीति, क्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धमागमे, स चायमागमः"'जाव णं भंते ! एस जीवे सया समियं एयइ वेयइ चलति फंदति घट्टति तिप्पति जाव तं तं भावं परिणमति तावं च णं अविहवंधए वा सत्तविहबंधए वा छविहबंधए वा एगविहबंधए वा, णो णं अपंधए"ति, एवं च कृत्वा य एंव कर्मवादी स एव क्रियावादीति, अनेन च सांख्याभिमतमात्मनोऽक्रियावादित्वं निरस्तं भवति ॥ ५॥ साम्प्रतं वोक्ता क्रियामात्मपरिणतिरूपां विशिष्टकालाभिधायिना तिङ्प्रत्ययेनाभिदधदहंप्रत्यय१ यावद् भदन्त ! एष जीवः सदा समितमेजते व्येजते चलति स्पन्दते तिप्यति यावत् तं तं भावं परिणमति तावञ्च अष्टविध
॥४४॥ बन्धको वा सप्तविधबन्धको वा षड्विधबन्धको वा एकविधबन्धको वा, नाबन्धकः ।