________________
राजपुत्राणामुद्वाहार्थमागतानामवधिज्ञानेन तत्प्रतिबोधनार्थ यथा जन्मान्तरे सहितैरेव प्रव्रज्या कृता, यथा च तत्फलं देवलोके जयन्ताभिधानविमानेऽनुभृतं तथाऽऽख्यातं, तच्चाकर्ण्य ते लघुकर्मत्वात्प्रतिबुद्धा विशिष्टदिगागमनविज्ञानं च सञ्जातं, उक्तं च-"किं थ(च)तयं पम्हु जं च तया भो! जयंतपवरंमि । वुच्छा समयनिवड देवा ! णं संभरह जाति ॥१॥ इति गाथात्रयतात्पर्य्यार्थः ॥ ४ ॥
साम्प्रतं प्रकृतमनुस्रियते-यो हि सोऽहमित्यनेनाहङ्कारज्ञानेनात्मोल्लेखेन पूर्वादेर्दिश आगतमात्मानमविच्छिन्नसंततिपांततं द्रव्यार्थतया नित्यं पर्यायार्थतया त्वनित्यं जानाति स परमार्थतः आत्मवादीति सूत्रकृद्दर्शयति
से आयावादो लोयावादी कम्मावादो किरियावादी ॥ सू०५॥ 'स' इति यो भ्रान्तः पूर्व नारकतिर्यग्नरामराद्यासु भावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्षु अक्षणिकामूर्तादिलक्षणोपेतमात्मानमवैति( वेत्ति), स इत्थंभूतः 'आत्मवादी'ति आत्मानं वदितु शीलमस्येति, यः पुनरेवंभूतमात्मानं नाम्धुप- । गच्छति सोऽनात्मवादी नास्तिक इत्यर्थः। योऽपि सर्वव्यापिनं नित्यं क्षणिकं वाऽऽत्मानमभ्युपैति सोऽप्यनात्मवाद्येव, यतः सर्वव्यापिनो निष्क्रियत्वाद्भवान्तरसंक्रान्तिनं स्यात् , सर्वथा नित्यत्वेऽपि 'अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यमितिकृत्वा मरणाभावेन भवान्तरसंक्रान्तिरेव न स्यात् , सर्वथा क्षणिकत्वेऽपि निमलविनाशात्सोऽहमित्यनेन पूर्वोत्तरानुसन्धानं न स्यात् । य एव चात्मवादी स एव परमार्थतो लोकवादी, यतो लोकयतीति लोकः-प्राणिगणस्तं
१ किमथ तद्विस्मृतं यच्च तदा मो जयन्तप्रवरे । उषिताः निबद्धसमयं देवास्तां स्मरत जातिम॥१॥
॥४३॥