SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ राङ्गवृत्तिः (शीलाका. ॥४२॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ अन्यदाऽमावास्यायाः पूर्वाहणे केनचित्ता(एकेन ता)पसेनो ष्टम्-यथा भो भोः तापसाः । श्वोऽनाकुट्टिभविता, - अतोऽद्यैव समित्कुसुमकुशकन्दफलमूलाद्याहरणं कुरुत, एतच्चाकर्ण्य धर्मरुचिना जनकः पृष्टः-तात ! केयमनाकुट्टिरिति, अध्ययनं. तेनोक्तम्-पुत्र ! कन्दफलादी(लतादी)नामच्छेदनं तद्धयमावास्यादिके विशिष्टे पर्वदिवसे न वर्त्तते, सावद्यत्वाच्छेदनादि उद्देशकः?' क्रियायाः, श्रुत्वा चैतदमावचिन्तयत्-यदि पुनः सर्वदाऽनाकुट्टिः स्याच्छोभनं भवेद् , एवमध्यवसायिनस्तस्यामावास्याय तपोवनासन्नपथेन गच्छनां साधूनां दर्शनमभूत् , ते च तेनाभिहिताः-किमद्य भवतामनाकुट्टिन सञ्जाता ? येनाटवीं प्रस्थिताः, तैरप्यभिहितम्-'यथाऽस्माकं यावज्जीवमनाकुट्टि'रित्यभिधायातिक्रान्ताः साध्वः, तस्य च तदाकयेहापोहविमर्शन जातिस्मरणमुत्पन्न-यथाऽहं जन्मान्तरे प्रव्रज्यां कृत्वा देवलोकसुखमनुभूयेहागत इति, एवं तेन विशिष्टदिगागमनं स्त्रमत्या-जातिस्मरणरूपया विज्ञातं, प्रत्येकबुद्धश्च जातः, एवमन्येऽपि कल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या इति । परव्याकरणे विदमुदाहरणम्-गौतमस्वामिना भगवान्बर्द्धमानस्वामी पृष्टो-भगवन् ! किमिति मे केवलज्ञानं नोत्पद्यते ? भगवता व्याकृतं-भो गौतम ! भवतोऽतीव ममोपरि स्नेहोऽस्ति, तद्वशात् , तेनोक्तम्-भगवन्नेवमेवं-al (मेतत् ), किनिमित्तः पुनरसौ मम भगवदुपरि स्नेहः १ ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः समावेदितः। 'चिरसंसिट्ठोऽसि मे सोयमा ! चिर परिचिओऽसि मे गोयमे'त्येवमादि, तच्च तीर्थद्वयाकरण(कृत्प्रतिपादित) | माकर्ण्य गौतमस्वामिनो विशिष्टदिगागमनादिविज्ञानमभूदिति । अन्यश्रवणे विदमुदाहरणम्-मल्लिस्वामिना पण्णां । १ चिरसंसृष्टोऽसि मया गौतम ! चिरपरिचितोऽसि मम गौतम ! ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ १२ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy