________________
४५॥
साध्यस्यात्मनस्तद्भव एवावधिमनःपर्यायकेवल ज्ञानजातिस्मरणव्यतिरेकेणैव त्रिकालसंस्पर्शिना मतिज्ञानेन सद्भावावगमं दर्शयितुमाह
अकरिस्सं चऽहं, कारवेसुचऽहं, करओ आवि समणुन्ने भविस्सामि ॥ सू०६॥ इह भृतवर्तमानभविष्यत्कालापेक्षया कृतकारितानुमतिभिनव विकल्पाः संभवन्ति, ते चामी-अहमकार्षमचीकरमहं कुर्वन्तमन्यमनुज्ञासिषमहं करोमि कारयाम्यनुजानाम्यहमिति करिष्याम्यहं कारयिष्याम्यहं कुर्वन्तमन्यमनुज्ञास्याम्यहमिति, एतेषां च मध्ये आद्यन्तौ सूत्रेणेवोपात्तौ, तदुपादानाच्च तन्मध्यपातिनां सर्वेषां ग्रहणम् , अस्यैवार्थस्याविष्करणाय द्वितीयो विकल्पः 'कारवेसुचाह मिति सूत्रणोपात्तः, एते च 'चकारद्वयोपादानादपिशब्दोपादानाच्च मनोवाकयैश्चिन्त्यमानाः सप्तविंशतिर्भदा भवन्ति, अयमत्र भावार्थः-अकार्षमहमित्यत्राहमित्यनेनात्मोल्लेखिना विशिष्टक्रियापरि
तिरूप आत्माऽभिहितः, ततश्चायं भावार्थो भवति–स एवाहं येन मयाऽस्य देहादेः पूर्व यौवनावस्थायामिन्द्रियवशगेन | विषयविषमोहितान्धचेतसा तत्सदकार्यानुष्ठानपरायणेनाऽऽनुकूल्यमनुष्ठितम् , उक्तं च-विहवावलेवनडिएहिं जाई कीरंति जोव्वणमएणं । वयपरिणामे सरियाई ताईहियए खुडक्कंति ॥१॥" तथा 'अचीकरमह'मित्यनेन परोऽकार्यादौ प्रवर्त्तमानो मया प्रवृत्ति कारितः, तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारितानुमतिभिर्भूत
॥४५॥ १ चकारद्वयापिशब्दोपादानान्मनो० प्र० २ विभवावलेपनटितर्यानि क्रियन्ते यौवनमदेन । वयःपरिणामे स्मृतानि तानि हृदये शल्यायन्ते ॥१॥