________________
अध्ययन
श्रीआचाराङ्गवृत्तिः
उद्देशकः १
(शीलाका.)
तीर्थकर व्यतिरिक्तानामतिशयज्ञानिनामन्तिके श्रुत्वा जानातीति, यच्च जानाति तत् सूत्रावयवेन दर्शयति तद्यथा-पूर्वस्या दिश आगतोऽहमस्मि, एवं दक्षिणस्याः पश्चिमायाः उत्तरस्या ऊर्ध्वदिशोऽधोदिशोऽन्यतरस्या दिशोऽनुदिशो वाऽऽगतोऽहमस्मीत्येवमेकेषां विशिष्टक्षयोपशमादिमतां तीर्थकरान्यातिशयज्ञानिवोधितानां च ज्ञातं भवति, तथा प्रतिविशिष्टदिगागमनपरिज्ञानानन्तरमेषामेतदपि ज्ञातं भवति-यथा अस्ति मेऽस्य शरीरकस्याधिष्ठाता ज्ञानदर्शनोपयोगलक्षण 'उपपादुको | भवान्तरसंक्रांतिभाग असर्वगतो भोक्ता मृत्तिरहितोऽविनाशी शरीरमात्रव्यापीत्यादिगुणवानात्मेति । स च द्रव्यकषाययोगोपयोगज्ञानदर्शनचारित्रवीर्यात्मभेदादष्टधा, तत्रोपयोगात्मना बाहूल्येनेहाधिकारः, शेषास्तु तदंशतयोपयुज्यन्त इति उपन्यस्ताः । तथा अस्ति च ममात्मा, योऽमुष्या दिशोऽनुदिशश्च सकाशाद् 'अनुसञ्चरति' गतिप्रायोग्यकर्मोपादानादनु-पश्चात सञ्चरत्यनुसश्चरति, 'पाठान्तरं' वा 'अणसंसरह'त्ति दिग्विदिशा गमनं भावदिगागमन वा स्मरतीत्यर्थः । साम्प्रतं सूत्रावयवेन पूर्वसूत्रोक्तमेवार्थमुपसंहरति-सर्वस्या दिशः सर्वस्याश्चानुदिशो य आगतोऽनुसश्चरति अनुसंस्मरतीति वा सः 'अहमित्यात्मोन्लेखः, अहंप्रत्ययग्राह्यत्वादात्मनः, अनेन पूर्वाद्याः प्रज्ञापकदिशः सर्वा गृहीताः भावदिशश्चेति । इममेवा) नियुक्तिकृद्दयितुमना गाथात्रितयमाहजाणइ सयं मईए अन्नेसिं वावि अन्तिए सोच्चा । जाणगजणपण्णविओ जीवं तह जीवकाए वा ॥४॥ इत्थ य सह संमइअत्ति जं एअंतत्थ जाणणा होई। ओहीमणपज्जवनाणकेवले जाइसरणे य ॥६५॥ परवइ वागरणं पुण जिणवागरणं जिणा परंनस्थि । अण्णेसिं सोच्चंतिय जिणेहिं सव्वो परो अण्णो॥६६॥
॥४०॥