________________
॥ ३६ ॥
दिसाओ वा अणुसंचरह (अणुसंसरइ), सव्वाओ दिसाओ अणुदिसाओ, सोऽह ॥ सू० ४ ॥ 'से जं पुण जाणेजत्ति सूत्रं यावत् सोऽह' मिति 'से' इति निर्देशो मागधशैल्या प्रथमैकवचनान्तः, स इत्यनेन च यः प्राग्निर्दिष्टो ज्ञाता विशिष्टक्षयोपशमादिमान् स प्रत्यवमृश्यते, यदित्यनेनापि यत्प्राग्निर्दिष्टं दिग्विदिगागमनं, तथा कोऽहमभृवमतीतजन्मनि देवो नारकस्तिर्यग्योनो मनुष्यों वा १ स्त्री पुमान्नषु सको वा ९ को वाऽमुतो मनुष्यजन्मनः प्रभ्रष्टोऽहं प्रेत्य देवा दिविष्यामीत्येतत्परामृश्यते, 'जानीयाद्' अवगच्छेद् इदमुक्तं भवति न कचिदनादौ संसृत पर्यटनमा दिगागमनादिकं जानीयात् यः पुनर्जानीयात्स एवं 'सह सम्मइयाए 'त्ति सहशब्दः सम्बन्धवाचा, सदिति प्रशंसायां मतिः - ज्ञानम्, अयपत्र वाक्यार्थः - आत्मना सह सदा या सन्मतिर्वर्त्तते तया सन्मत्या कविजानीते, सहशब्दविशेषणाच्च सदाऽऽत्मस्वभावत्वं मतेरावेदितं भवति, न पुनर्यथा वैशेषिकाणां व्यतिरिक्ता सती समवायवृत्त्याऽऽत्मनि समवेतेति । यदि वा 'सम्मइए' त्ति स्वकीयया मत्या स्वमत्येति, तत्र भिन्नमप्यश्वादिक स्वकीयं दृष्टमतः सहशब्दविशेषणं, सहशब्दश्चासमस्त इति, सत्यपि चात्मनः सदा मनिसन्निघाने प्रबलज्ञानावरणावृतत्वान्न सदा विशिष्टोऽवबोध इति सा पुनः सम्मतिः स्वमतिर्वा अवधिमनः पर्याय केवलज्ञानजातिस्मरणभेदाच्चतुर्विधा ज्ञेया, तत्रावधिमनः पर्याय केवलानां स्वरूपमन्यत्र विस्तरणोक्तं, जातिस्मरणं त्वाभिनिबोधिकविशेषः, तदेवं चतुर्विधया मत्याऽऽत्मनः कश्चिद्विशिष्टदिग्गत्यागती जानाति, कश्चिच्च परः - तीर्थकृत्सर्वज्ञः, तस्यैव परमार्थतः परशब्दवाच्यत्वात्परत्वं, तस्य तेन वा व्याकरणम्-उपदेशस्तेन जीवांस्तद्भेदश्चि पृथिव्यादीन् तद्गत्यागती च जानाति, अपरः पुनः 'अन्येषां '
॥ ३६ ॥