________________
भीआचारावृत्तिः (शीलाका
अध्ययनं १ उद्देशकः १
अणावाहं॥१॥" अत्र च क्रियावादिनामस्तित्वे सत्यपि केपाश्रित्सर्वगतो नित्योऽनित्यः कर्ताऽकर्ता मृतॊऽमृतः श्यामाक-तण्डुलमात्रोऽङ्गुष्ठपर्वमात्रो दीपशिखोपमो हृदयाधिष्ठान इत्यादिकः, अस्ति चौपपातिकश्च, अक्रियावादिनां त्वात्मैव न विद्यते, कुतः पुनरौपपातिकत्वम् ?, अज्ञानिकास्तु नात्मानं प्रति विप्रतिपद्यन्ते, किन्तु तज्ज्ञानमकिश्चित्करमेपामिति, वैनयिकानामपि नात्माऽस्तित्वे विप्रतिपत्तिः, किन्त्वन्यन्मोक्षसाधनं विनयाहते न सम्भवतीति प्रतिपन्नाः। तत्रानेन सामान्यात्मास्तित्वप्रतिपादनेनाक्रियावादिनो निरस्ता द्रष्टव्याः, आत्मास्तित्वानभ्युपगमे च-शास्ता शास्त्रं शिष्यः प्रयोजनं वचनहेतुदृष्टान्ताः । सन्ति न शून्यं ब्रुवतस्तदभावाचाप्रमाणं स्यात् ॥ १॥ प्रतिषेण्डप्रतिषेधौ स्तश्चेच्छ्न्यं कथं भवेत्सर्वम् । तदभावेन तु सिडा अप्रतिषिडा जगत्यर्थाः ॥२॥" एवं शेषाणामप्यत्रैव यथासम्भवं निराकरणमुत्प्रेक्ष्यमिति ॥ ३ ॥ गतमानुषङ्गिक, प्रकृतमनुस्रियते-तत्रेह 'एवमेगेसि णो णायं भवई' इत्यनेन केषाश्चिदेव संज्ञानिषेधात्केषाश्चित्तु भवतीत्युक् भवति, तत्र सामान्यसंज्ञायाः प्रतिप्राणि सिद्धत्वातत्कारणपरिज्ञानस्य चेहाकिञ्चित्करत्वाद्विशिष्टसंज्ञायास्तु केषाश्चिदेव मावात् तस्याश्च भवान्तरगाम्यात्मस्पष्टप्रतिपादने सोपयोगित्वाद् सामान्यसंज्ञाकारणप्रतिपादनमनाइत्य विशिष्टसंज्ञायाः कारणं सूत्रकदर्शयितुमाह
से जं पुण जाणेजा सह संमइयाए(इए) परवागरणेणं अण्णेसिं अंतिए वा सोचा, तंजहा-पुरस्थिमाओ वा दिसाभो आगओ अहमंसि जाव अण्णयरीओ दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसि जं णायं भवति-अत्यि मे आया उववाइए, जो इमाओ दिसाओ अणुः
wwwRANKAR