SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ॥३७॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ज्ञातेनेत्यादि एवमजीवादिष्वपि प्रत्येक सप्त विकल्पाः, नव सप्तकाविषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षिप्यन्त. तद्यथा-सती भावोत्पत्तिरिति को जानाति ? किं वाऽनया ज्ञातया ? एवम सती सदसती अवक्तव्या भावोत्पत्तिरिति को वेत्ति ? किं वाऽनया ज्ञातयेति, शेषविकल्पत्रयमुत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न सम्भवतीति नोक्तम् , एतच्चतुष्टयप्रक्षेपात्सप्तपष्टिर्भवति । तत्र सन् जीव इति को वेत्ति ? इत्यस्यायमर्थ:-न कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान् जीवादीनवभोत्स्यते, न च तेतिः किश्चित्फलमस्ति, तथाहि--यदि नित्यः सर्वगतोऽमृत्तों ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा ? ततः कतमस्य पुरुषार्थस्य सिद्धिरिति, तस्मादज्ञानमेव श्रेयः । अपि च-तुल्येऽप्यपराधे अकामकरणे लोके स्वल्पो दीपो, लोकोत्तरेऽपि आकुट्टिकानाभोगसहसाकारादिषु चुल्लकभिक्षुस्थविरोपाध्यायमूरीणां यथाक्रममुत्तरोत्तरं प्रायश्चित्तमित्येवमन्ये ध्वपि विकल्पेष्वायोज्यम् ॥ तथा वैयिकानां द्वात्रिंशभेदाः, ते चानेन विधिना मावनीयाः-सुरनृपति-यतिज्ञाति-स्थविराधम-मातपितष्यष्टसु मनोवाकायप्रदान-चतुर्विधविनयकरणात् , तद्यथा-देवानां विनयं करोति मनसा वाचा कायेन तथा देशकालोपपन्नेन दानेनेत्येवमादि । एते च विनयादेव स्वर्गापवर्गमार्गमभ्युपयन्ति; नीचैर्वृत्त्यनुत्सकलक्षणो विनयः, सर्वत्र चैवंविधेन विनयेन देवादिषूपतिष्ठमानः स्वर्गापवर्गभाग् भवति, उक्त च-'विणयाउ णाणं णाणाओ दंसणं दंसणाओ चरणं च। चरणाहिंतो मोक्खो मोक्खे सोक्वं १ विनयात् ज्ञानं ज्ञानादर्शनं दर्शनात् (ज्ञानदर्शनाभ्यां ) चरणं च । चरणात् (ज्ञानदर्शनचारित्रेभ्यः ) मोक्षो मोक्षे सौख्यमनाबाधम् ।।१।। ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥ ३७॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy