SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ श्रीआचा(रावृत्तिः चो नाका.) सम्य. ५ उद्देशकः ५ ४५०॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ मस्तीति तीर्थकृद्वचनमन्तरेण नरकादौ पततामित्येवम्भूतभावनायाः समर्थों भवति, कः पुनः परीषहोपसर्गाणां जेता केनचिदनभिभृतो निरालम्बनतायाः प्रभुर्भवति १, इत्येवं पृष्टे तीर्थकृत सुधर्मस्वाम्यादिको वाऽऽचार्योऽन्तेवासिनमाह-यः पुरस्कृतमोक्षो 'महान्' महापुरुषो लघुकर्मा ममाभिप्रायान्न विद्यते बहिर्मनो यस्यासावबहिर्मनाः, सर्वज्ञोपदेशवर्तीति यावत् , कुतः पुनस्तदुपदेशनिश्चय इति चेदाह-प्रकृष्टो वादः प्रवाद:-आचार्यपारम्पर्योपदेशः प्रवादस्तेन प्रवादेन प्रवादसर्वज्ञोपदेशं 'जानीयात्' परिच्छिन्द्यादिति । यदिवाऽणिमाद्यष्टविधैश्वर्यदर्शनादपि न तीर्थद्वचनाद्बहिर्मनो विधत्ते, तीथिकानिन्द्रजालिककन्पानिति मत्वा तदनुष्ठानं तद्वादश्च पर्यालोचयति, कथमित्याह-'पवाएण पवायं जाणिज्जा' प्रकृष्टो वादः प्रवादा-सर्वज्ञवाक्यं तेन मौनीन्द्रेण प्रवादेन तीर्थिकप्रवादं 'जानीयात्' परीक्षयेत् , तद्यथा-वैशेषिकाः तनुभुवनकरणादिकमीश्वरक कमिति प्रतिपनाः, तदुक्तम्-"अन्यो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव च ॥१॥" इत्यादिकं प्रवादमात्मीयप्रवादेन पर्यालोचयेत् , तद्यथाअर्मेन्द्रधनुरादीनां विस्रसापरिणामलब्धात्मलामानां तदतिरिक्तेश्वरादिकारणपरिकल्पनायामतिप्रसङ्गः स्यात् , तथा घटपटादीनां दण्डचक्रचीवरसलिलकुलालतुरीवेमशलाकाकुविन्दादिव्यापारानन्तरावाप्तात्मलाभानां तदनुपलब्धव्यापारेश्वरस्य कारणपरिकल्पनाया रासमादेरपि किं न स्यात् , तनुकरणादीनामप्यवन्ध्यस्वकृतकापादितं वैचित्र्य, कर्मणोऽनुपलब्धेः कुत एतदिति चेत्, समानः पर्यनुयोगः, अपि च-तुल्ये मातापित्रादिके कारणेऽपत्यवैचित्र्यदर्शनात्तदधिकेन निमिन भाव्यं, तच्चेश्वराभ्युपगमेऽप्यदृष्टमेवेष्टव्यं, नान्यथा सुखदुःखसुभगदुर्भगादि जगद्वैचित्र्यं, स्यादिति । तथा ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥४५०॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy