SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ॥४४९॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ Bal स्वाभिमानग्रहग्रस्ताः सह उपस्थानेन-धम्मचरणाभामोद्यमेन वर्तन्त इति सोपस्थानाः, किल वयमपि प्रव्रजिताः सद सद्धर्मविशेषविवेकविकलाः सावद्यारम्भतया प्रवर्त्तन्ते, एके तु न कुमार्गवामितान्तःकरणाः, किन्तु आलस्यावर्णस्तम्भाद्यपवृहितबुद्धया, 'आज्ञायां' तीर्थकरोपदेशप्रणीते सदाचारे निर्गतमुपस्थानम्-उद्यमो येषां ते निरुपस्थानाः-सर्वज्ञप्रणीतसदाचारानुष्ठानविकलाः । एतत्कुमार्गानुष्ठानं मन्मार्गावसीदनं च द्वयमपि ते' तव गुरुविनयोपगतस्य दुर्गतिहेतुत्वान्मा भूदिति । सुधर्मस्वामी स्वमनीषिकापरिहारार्थमाह-'एतद' यत्पूर्वोक्तं यदिवा अनाज्ञायां निरुपस्थानत्वमाज्ञायाँ च सोपस्थानत्वमित्येतत् 'कुशलस्य' तीर्थकृतो दर्शनमभिप्रायः, यदिवैततद्वक्ष्यमाणं कुशलस्य दर्शनमित्याह-कुमार्ग परित्यज्य सदाऽऽचार्यान्तेवासिना एवंभूतेन भाव्यं, तस्य-आचार्यस्य दृष्टिस्तदृष्टिस्तया वर्तितव्यं, सा वा तीर्थकरप्रणीतागमदृष्टिस्तदृष्टिस्तयेति, तथा तस्य-आचार्यस्य तीर्थकृतो वा मुक्तिस्तन्मुक्तिस्तया, तथा तमाचार्य सर्वकार्येषु पुरः करोतीति तत्पुरस्कारः-प्राचार्यानुमत्या क्रियानुष्ठायीत्यर्थः, तथा तत्संज्ञी-तज्ज्ञानोपयुक्तः, तथा तन्निवेशन:-सदा गुरुकुलनिवासी ॥ स एवंभूतः किंगुणः स्यादित्याह अभिभूय अदक्खू अणभिभूए पभू निरालंबणयाए जे महं अपहिमणे, पवाएण पवायं जाणिज्जा, सहसंमइयाए परवागरणेणं अन्नेसि वा अंतिए सुच्चा ॥ १६७ ॥ ____ 'अभिभूप' पराजित्य परीषहोपसर्गान् धातिकर्मचतुष्टयं वा तत्त्वमद्राक्षीत , किंच-नामिभूतोऽनभिभृतः अनुकूलप्रतिकूलोपसर्गः परतीर्थिकैर्वा, स एवम्भूतः 'प्रभुः' समर्थो निरालम्बनतायाः-नात्र संसारे मातापिनकलत्रादिकमालम्बन n४४९.
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy