SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ रीओ दिसाओ आगओ अहमंसी'त्यनेन परिगृहीतः, सूत्रावयवार्थश्वायम्-इह दिगग्रहणात् प्रज्ञापकदिशश्चतस्रः पूर्वादिका ऊधिोदिशौ च परिगृह्यन्ते, भावदिशस्त्वष्टादशापि, अनुदिग्ग्रहणात्तु प्रज्ञापकविदिशो द्वादशेति, तत्रासंज्ञिनां RE नैपोऽवबोधोऽस्ति, संज्ञिनामपि केषाश्चिद्भवति केषाश्चिन्नेति, यथाऽहममुष्या दिशः समागत इहेति । 'एवमेगेसि । णो णायं भवइत्ति' 'एव' मित्यनेन प्रकारेण, प्रतिविशिष्टदिग्विदिगागमनं नैकेषां विदितं 'भवतीत्येतदुपसंहारवाक्यम् , एतदेव नियुक्तिकृदाहa केसिंचि नाणसण्णा अस्थि केसिंचि नत्थि जीवाणं । कोऽहं परंमि लोए आसी कयरा दिसाओवा?॥६३॥ A केषाश्चिञ्जीवानां ज्ञानावरणीयक्षयोपशमवतां ज्ञानसंज्ञाऽस्ति, केषाश्चित्तु तदाबृतिमतां न भवतीति । यादृग्भूता संज्ञा न भवति तां दर्शयति-कोऽहं परस्मिन् 'लोके' जन्मनि मनुष्यादिरासम् , अनेन भावदिग् गृहीता, कतरस्या वा दिशः समायात इत्यनेन तु प्रज्ञापकदिगुपातेति, यथा कश्चिन्मदिरामदाघूर्णितलोललोचनोऽव्यक्तमनोविज्ञानो रथ्यामार्गनिपतितस्तच्छ-कृष्टश्वगणालिद्यमानवदनो गृहमानीतो मदात्यये न जानाति कृतोऽहमागत इति, तथा प्रकृतो मनुष्यादिरपीति गाथार्थः ॥ केवलमेव संज्ञा नास्ति अपराऽपि नास्तीति सूत्रकृदाह- . अस्थि मे आया उववाइए, नत्थि मे आया उववाइए, के अहं आसी? के वा इओ चुए इह पेच्चा भविस्सामि ॥ सू०३॥ १ औपपातिकवृत्त्यभिप्रायेणैष तृतीयसूत्रावतरणमागः, चूर्ण्यभिप्रायेण तु 'भविस्सामि' इति पर्यन्त उपसंहारः, 'मवति' इति 'तंजहा' इति चाधिकम् । ॥31॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy