SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीआचा राङ्गवृत्तिः (शीलाका.) ___ 'अस्ति' विद्यते 'ममे त्यनेन षष्ठयन्तेन शरीरं निर्दिशति, ममास्य शरीरकस्याधिष्ठाता, अतति-गच्छति सततगतिप्रवृत्त आत्मा-जीवोऽस्तीति, किंभृतः ?-'औपपातिक: उपपात.-प्रादुर्भावो जन्मान्तरसंक्रान्तिः, उपपाते भव औप अध्ययनं १ पातिक इति, अनेन संसारिणः स्वरूपं दर्शयति, स एवंभूत आत्मा ममास्ति नास्तीति च एवंभृता संज्ञा केषाश्चिद- उद्देशकः १ ज्ञानावष्टब्धचेतसा न जायत इति । तथा कोऽहं' नारकतिर्यगमनुष्यादिः पूर्वजन्मन्यासं ? को वा देवादिः 'इतो' मनुष्यादेर्जन्मन 'च्युतो विनष्टः 'इह' संसारे 'प्रेत्य' जन्मान्तरे 'भविष्यामि' उत्पत्स्ये इति, एषा च संज्ञा न भवतीति ॥ इह च यद्यपि सर्वत्र भावदिशाऽधिकारः प्रज्ञापकदिशा च, तथापि पूर्वसूत्रे साक्षात्प्रज्ञापकदिगुपात्तात्र तु भावदिगित्यवगन्तव्यम् । ननु चात्र संसारिणां दिग्विदिगागमनादिजा विशिष्टा संज्ञा निषिभ्यते न सामान्यसंज्ञेति, एतच्च संझिनि धम्मिण्यात्मनि सिद्धे सति भवति, 'सति धम्मिणि धर्माश्चिन्त्यन्त, इति वचनात् , स च प्रत्यक्षादिप्रमाणगोचरातीतत्वाद्दुरुपपादः, तथाहि-नासावध्यक्षेणार्थसाक्षात्कारिणा विषयीक्रियते, तस्यातीन्द्रियत्वाद् , अतीन्द्रियत्वं च स्वभावविप्रकृष्टत्वाद् , अतीन्द्रियत्वादेव च तदव्यभिचारिकार्यादिलिङ्गमम्बन्धग्रहणासम्भवात् नाप्यनुमानेन, तस्याप्रत्यक्षत्वे तवसामान्यग्रहणशक्त्यनुपपत्तेः नाप्युपमानेन, आगमस्यापि विवक्षायां प्रतिपाद्यमानायामनुमानान्तभवाद् अन्यत्र च बाह्यऽर्थे सम्बन्धाभावादप्रमाणत्वं, प्रमाणत्वे वा परस्परविरोधित्वान्नाप्यागमेन, तमन्तरेणापि सकलार्थोपपत्ते प्यर्थापत्या, तदेवं प्रमाणपश्चकातीतत्वात्षष्ठप्रमाणविषयत्वादभाव एवात्मनः । प्रयोगश्चायम्-नास्त्यात्मा,an प्रमाणपत्रकविषयातीतत्वात, खरविषाणवदिति, तदभावे च विशिष्टसंज्ञाप्रतिषेधाभावसम्भवेनानुत्थानमेव सूत्रस्येति,
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy