SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ कुप्यति, मामप्येवमयं तिरस्करोति, धिग्मे जाति पौरुष विज्ञानं चेत्येवमभिमानग्रहगृहीतो वाङ्मात्रादपि गच्छान्निर्गच्छति, तन्निर्गतो वाऽधिकरणादिविडम्बनयाऽऽत्मानं विडम्बयति, अथवोन्नम्यमान, केनचित् दुर्विदग्धेनाहोऽयं महाकुलप्रसूत आकृतिमान् पटुप्रज्ञो मृष्टवाक् समस्तशास्त्रवेत्ता सुभगः सुखसेव्यो वेत्यादिना वचसा तथ्येनातथ्येन वोत्प्रास्यमान उन्नतमानो गर्वाध्मातो महता चारित्रमोहेन मुह्यति संसारमोहेन वोह्यत इति । तस्य चोन्मतमानतया महामोहेन मुह्यतो माहाच्च वाङ्मात्रेणापि कुप्यतः कोपाच्च गच्छनिर्गतस्यानभिव्यक्तस्य भिझोामानुग्राममेकाकिनः पर्यटतो यत्स्यात्तदाह-तस्थाव्यक्तस्यैकचरस्य पर्यटतः सम्बाधयन्तीति सम्बाधा:-पीडाः उपसर्गजनिता नानाप्रकागतङ्कजनिता वा भूयो भूयो बह्वयः स्युः, ताश्चैकाकिनाऽव्यक्तेन निरवद्यविधिना 'दुरतिक्रमा' दुरतिलचनीयाः, किम्भृतस्य दूरतिक्रमा इत्याह-तासां नानाप्रकारनिमित्तोत्थापितानां बाधानामतिसहनोपायमजानानस्य सम्यक्करणसहनफलं चापश्यतो दुरति क्रमणीयाः पीडा भवन्ति, ततश्चातङ्कपीडाकूलीभूतः सन्नेषणामपि लङ्घयेत , प्राण्युपमर्दमप्यनुमन्येत, वाकण्टकनुदितः a सन्नव्यक्ततया प्रज्वलेत, नैतद्भावयेद् यथा मत्कर्मविपाकापादिता एताः पीडाः परोऽत्र केवलं निमित्तभृतः, किं च "आत्मद्रोहममर्याद, मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत, नरकाञ्चिष्मदिन्धनम् ॥१॥" इत्यादिका भावना आगमापरिमलितमतेनं भवेदिति । एतत्प्रदर्श्य भगवान् विनेयमाह-'एतद्' एकचर्याप्रतिपन्नस्य बाधादुरतिक्रमणीयत्वमजानानस्यापश्यतश्च 'ते' तव मदुपदेशवर्तिनो मा भवतु, आममानुसारितया सदा गच्छान्तर्वर्ती भवेत्यर्थः । सुधर्मस्वाम्याह-एतत् यत् पूर्वोक्तं तत् 'कुशलस्य' श्रीवर्द्धमानस्वामिनो 'दर्शनम्' अभिप्रायो यथाऽ ४२७.
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy