SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ सम्य.५ उद्देशकः ४ श्रीचारावृत्तिः (जीलाका ॥४२६॥ पंथनिझाई पलिषाहिरे, पासिय पाणे गच्छिज्जा ॥ सू० १५७ ॥ कचित्तपःसंयमानुष्ठानादाववसीदन्तः प्रमादस्खलिता वा गुर्वादिना धर्मेण वचसाऽपि 'एके' अपुष्टधर्माणः अनवगतपरमार्थाः 'उक्ताः' चोदिताः कुप्यन्ति, के ते -'मानवा' मनुजाः क्रोधवशगा भवन्ति, ववते च-कथमहमनेनेयता साधूनां मध्ये तिरस्कृता, किं मया कृतम् १, अथवाऽन्येऽप्येतत्कारिणः सन्त्येव, ममाप्येवम्भूतोऽधिकारोऽभूत , धिग्मे जीवितमित्यादि, महामोहोदयेन क्रोधतमिस्राच्छादितदृष्टयः उज्झितसमुचिताचारा उभयान्यतराव्यक्ता मीना इव गच्छसमुद्राभिर्गत्य विनाशमाप्नुवन्ति, यदिवा वचसाऽपि यथा क इमे लुश्चिताः मलोपहतगात्रयष्टयः प्रगतनावसर एवास्माभिर्द्रष्टव्या इत्यादिनोक्ता एके क्रोधान्धाः कुप्यन्ति मानवाः, अपिशब्दात्कायेनापि स्पृष्टाः कुप्यन्ति, कुपिताश्चाधिकरणादि कुर्वन्तीत्येवमादयो दोषा अव्यक्तैकचर्यायां गुर्वादिनियामकामावत्प्रादुष्प्युरिति, गुरुसान्निध्ये चैवम्भृत उपदेशः सम्भवेत, तद्यथा-"आनष्ठेन मतिमता तत्त्वार्थान्वेषणे मतिः कार्या। यदि सत्य का कोपः १ स्यादनतं किं नु कोपेन ?॥१॥ तथा- अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते । धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥२॥"इत्यादि, किं पुनः कारणं वचसाऽप्यभिहिता ऐहिकामुष्मिकापकारकारिणः स्वपरवाधकस्य क्रोधस्थावकाशं ददतीत्याह-उन्नतो मानोऽस्येत्युन्नतमानः, उन्नतं वाऽऽत्मानं मन्यत इति, स चैवम्भृतो 'नरो' मनुष्यो महता मोहेन-प्रबलमोहनीयोदयेन अज्ञानोदयेन वा 'मुद्यति' कार्याकार्यविचारविवेकविकलो भवति, स च मोहमोहितः केनचिच्छिक्षणार्थमभिहितो मिथ्या दृष्टिना वा वाचा तिरस्कृतो जात्यादिमदस्थानान्यतरसद्भावेनोन्नतमानमन्दरारूढः ॥४२६.
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy