________________
.४२१ ॥
कर्मवर्जनं तदेव सम्यक् प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैव दर्शयितुमाह-सम्यगिति-सम्यग्ज्ञानं सम्यक्त्वं वा तत्सहचरितं, अन्योः सहभावादेकग्रहणे द्वितीयग्रहणं न्याय्यं, यदिदं सम्यग्ज्ञानं सम्यक्त्वं वेत्येतत्पश्यत तन्मुनेर्भावो मौनंसंयमानानमित्येतत्पश्यत, यच्च मौनमित्येतत् पश्यत तत्सम्यग्ज्ञानं नैश्चयिकसम्यक्त्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात सम्यक्त्वस्य चाभिव्यक्तिकारणत्वात् सम्यक्त्वज्ञानचरणानामेकताऽध्यवसेयेति भावार्थ: । एतच्च न येन केनचिच्छक्यमनुष्टातुमित्याह-नैतत्सम्यक्त्वादित्रयं सम्यगनुष्ठातु शक्यं, कैः १-'शिथिलैः' अल्पपरिणामतया मन्दवीयैः संयमतपसोऽतिदृढिमरहितैरिति, किं च-आद्रैः-पुत्रकलवाद्यनुषङ्गजनितस्नेहादाीक्रियमाणैरेतत्पूर्वोक्तमशक्यमिति सम्बन्धः, किं च-गुणा:--शब्दादयस्तेष्वास्वादो येषां ते गुणास्वादास्तैरिति, किं च-चक्रः समाचारो येषां ते तथा तैः, मायाविमिरिस्य तथा पमत्तेहित्ति--विषयकषायादिप्रमादैः प्रमत्तैरिति, किं च--अगारं--गृहं तद् आद्यक्षरलोपाद्गारमित्युक्तं तदगारमावसद्भिः-सेवमानः, पापकर्मवजनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योजनीयं । कथं तहि शक्यमित्याह'मुनिः' जगत्त्रयस्य मन्ता मौनं--मुनित्वमशेषसावद्यानुष्ठानवर्जनरूपं 'समादाय' गृहीत्वा धुनीयाच्छरीरकमौदारिक कर्मशरीर वेति । कथं च तद्धननमित्याह--प्रान्तं--पर्युषितं वनचनकाद्यन्पं वा, तदपि रूक्षं विकृतेरभावात् , तत् 'सेवन्ते' तदभ्यवहरन्ति, के ते ?--'वीराः कर्मविदारणसहिष्णवः, किंभूताः ?-सम्यक्त्वदशिनः समत्वदर्शिनो वा। यश्च प्रान्तरूक्ष
सेवी स किंगुणः स्यादित्याह-'एषः' अनन्तरोक्तविशेषणविशिष्टः ओषो--भवौषः संसारस्तं तरतीति, कोऽसौ ?-मुनिः, 8. वर्तमानसमीप्ये वर्तमानवद्वेति तीर्ण एवासौ, सबाह्याभ्यन्तरसङ्गाभावान्मुक्तवन्मुक्तः, कश्चैवम्भूतो ?-यः सावद्यानुष्ठाना