________________
भीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥ ४२० ॥
च-मोक्षसंयमाभिमुखा दिक् ततोऽन्या विदिक् तां प्रकर्षेण तीर्णो विदिक्प्रतीर्णः, स चैवम्भूतः सभारम्भी स्यात्, कुमार्गपरित्यागेन न पापारम्भान्वेषी भवतीत्यर्थः, किं च-चरणं चारः-- अनुष्ठानं निर्विण्णस्य चारो निर्विण्णचारः सोऽस्यास्तीति निर्विण्णचारी, कुत इति चेत्, यतः 'प्रजास्वरतः' प्रजायन्त इति प्रजाः प्राणिनस्तत्रारतः --तदारम्मानिवृत्तौ निर्गमत्वो वा, यश्च शरीरादिष्वपि ममत्वरहितः स निर्विण्णचार्येव भवति, यदिवा प्रजाः - स्त्रियस्तास्वरतः आरम्भेऽपि निर्वेदमा - गच्छति, कारणाभावे कार्यस्याप्यभावादिति ॥ यथ प्रजास्वरक्तः आरम्भरहितः स किम्भूतः स्यादित्याह -
से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं अकर णिज्जं पावकम्मं तं नो अनेसी, जं संमति पासा तं मोणति पासहा जं मोणंति पासहा तं संमंति पासहा, न इमं सक्कं सिटिलेहिं अद्दिजमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं, मुणी मोणं समायाए धुणे सरीरगं, पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो, एस ओहन्तरे मुणी, तिण्णे मुत्ते विरए वियाहिए तिबेमि ॥ सू० १५५ ॥ इति तृतीय उद्देशकः ॥ ५-३ ॥
वसु-द्रव्यं, स चात्र संयमस्तद्विद्यते यस्य स निवृत्तारम्भो मुनिर्वसुमान् सर्वं सम्यगन्वागतं प्रज्ञानं पदार्थाविर्भाव कं यस्यात्मनस्तेनात्मना सर्वसमन्वागतप्रज्ञानरूपापन्नेन यदकर्त्तव्यं पापकर्म्म तन्नो कदाचिदप्यन्वेषति, उपलब्ध परमार्थस्वरूपेणात्मना न सावधानुष्ठानविधायी स्यादिति भावार्थ: । यदेव सम्यक प्रज्ञानं तदेव पापकर्मवर्जनं यदेव च पाप
सम्य० ५ उद्देशकः ३
॥ ४२० ॥