SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४१९॥ लोकं वा पचनपाचनौदेशिकसचित्ताहारादिप्रवृत्त मुत्प्रेक्षमाणोऽन्यथा वा आत्मानं निवृत्ताशुभव्यापारमुत्प्रेक्षमाणः संविद्धपथो मुनिः स्यात् इति । लोकं चान्यथोत्प्रेक्ष्य किं कुर्यादित्याह-'इति' पूर्वोक्तहेतुभिर्यबद्धं कर्म तदुपादानं च सर्वतः परिज्ञाय ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाऽपि सर्वतः परिहरेत् । कथं परिहरतीत्याह-'स' कर्मपरिहर्ता कायवाङ्मनोमिने हिनस्ति जन्तून न घातयत्यपरे प्यनुमन्यते । किं च-पापोपादानप्रवृत्तमात्मानं संयमयति, सप्तदशप्रकारं वा संयम करोति संयमयति, आचारविचन्तं वैतत् संयम इवाचरति संयमयति । किं च-'नो पगभइ' 'गल्भ धाष्ट्ये' असंयमकर्मसु प्रवृत्तः सन् न प्रगल्भत्वमायाति. रहस्यप्यकार्यप्रवृत्तो जिहति न धृष्टतां अवलम्बत इति, उपलक्षणार्थत्वादस्य तुण्णमोक्षपथो मुनिन क्रुध्यति, न जात्यादिमानमुदहति, न वश्चनां विधत्ते, न लुभ्यति । किमाकलय्यैतत्कुर्यादित्याह'उत्प्रेक्षमाणः' अवगच्छन् प्रत्येकं प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखीति नापि परदुःखेन दुःखीत्यतः प्राणिनो न हिंस्यादिति । प्राणिनां प्रत्येक सातमुत्प्रेक्षमाणश्च किं कुर्यादित्याह-वर्ण्यते-प्रशस्यते येन स वर्ण:-साधुकारस्तदादेशी वर्णादेशी--वर्णाभिलाषी सन् नारभते कश्चन पापारम्भं सर्वस्मिन्नपि लोके, यदिवा--तपःसंयमादिकमप्यारम्भं यशाकीय॑थं नारभते, प्रवचनोद्भावनाथ त्वारभते, तदुद्भावकाश्चामी-"प्रावचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च । विद्यासिडः ख्यातः कविरपि चोद्भावकारत्वष्टौ ॥१॥" यदिवा वर्णो--रूपं तदादेशी--तदभिलाषुकः नोद्वर्तनादिकाः क्रिया आरभेत, किम्भूतः सन्नेतत्कुर्यादित्याह-'एको' मोक्षोऽशेषमलकलङ्करहितत्वात् संयमो वा-रागद्वेषरहितत्वात् तत्र प्रगतं मुखं यस्य स तथा-मोक्षे तदुपाये वा दत्तैकदृष्टिर्न कन्चन पापारम्भमारमेत इति, कि ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy