________________
॥४०९ ॥
समुप्पेहमाणस्स इकाययणरयस्स इह विप्पमुक्कस्स नस्थि मग्गे विरयस्स तिबेमि ॥ सू० १४८॥ सम्यगुत्प्रेक्षमाणस्य-पश्यतोऽनित्यताघातमिदं शरीरमित्येवमवधारयतो नास्ति मार्ग इति सम्बन्धः, किं च-आङ्अभिविधौ समस्तपापारम्मेभ्यः आत्मा आयत्यते-आनियम्यते यस्मिन् कुशलानुष्ठाने वा यत्नवान् क्रियत इत्यायतनंज्ञानादित्रयम् एकम्-अद्वितीयमायतनमेकायतनं तत्र रतस्तस्य, किं च–'इह' शरीरे जन्मनि वा विविधं परमार्थ भावनया सारीरानबन्धात प्रमुक्तो विप्रमुक्तस्तस्य 'नास्ति' न विद्यते, कोऽसौ १-'मार्गो' नरकतियङ्मनुष्यगमनपद्धतिः, वर्तमानसामीप्ये वर्तमानदर्शनान्न भविष्यतीति नास्तीत्युक्तं, यदिवा तस्मिन्नेव जन्मनि समस्तकर्मक्षयोपपत्ते स्ति नाकादिमार्गः कस्येति दर्शयति-विरतस्य' हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य, इतिरधिकारपरिममाप्ती, ब्रवीमीति पूर्ववत सधम्मस्वाम्यात्मानमाह, यद्भगवता वीरवर्द्धमानस्वामिना दिव्यज्ञानेनार्थानुपलभ्य वाग्योगेनोक्तं तदहं भवतां ब्रवीमि, न स्वमतिविरचनेनेति । विरत एव मुनिर्भवत्येतत्प्रतिपाद्य साम्प्रतम् 'अविरतवादी परिग्रहवानिति यदुक्तं तत्प्रतिपादयबाह
आवंती केयावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुँ वा अणुवा थूलं वा चित्तमंतं वा अचित्तमंतं वा एएसु चेव परिग्गहावंती, एतदेव एगेसिं महन्भयं भवइ, लोग
वित्तं च णं उवेहाए, एए संगे अवियाणओ। सू० १४९ ॥ यावन्तः केचन लोके परिग्रहवन्तः परिग्रहयुक्ताः स्युस्तत(त्र) एवम्भूतपरिग्रहसद्भावादित्याह-से अप्पं वा इत्यादि, तदव्यं यत्परिगृह्यते तदल्पं वा-स्तोकं वा स्यात् कपर्देकादि, बहु वा स्यात् धनधान्यहिरण्यग्रामजनपदादि, अणु वा
४०९॥