________________
॥३५॥
तदेव विदधातीति । किं च-'मोहेण' इत्यादि, 'मोह' अज्ञानं मोहनीय वा मिथ्यात्वकषायविषयाभिलाषमयं तेन मोहेन मोहितः सन् कर्म बध्नाति, तेन च गर्भमवाप्नोति, ततोऽपि जन्म पुनर्वालकुमारयौवनादिवयोविशेषाः, पुनर्विषयकषायादिना कम्र्मोपादायायुषः क्षयात् मरणमवाप्नोति, आदिग्रहणात्पुनर्गमित्यादि, नरकादियातनास्थानमेतीत्यतोऽभिधीयते-एत्थ' इत्यादि, 'अत्र' अस्मिन्ननन्तरोक्ते 'मोहे' मोहकार्ये गर्भमरणादिके पौनःपुन्येनानादिकमपर्यन्तं चतुतिकं संसारकान्तारं पर्यटति, नास्मादपैतीतियावत् , कथं पुनः संसारे न बम्भ्रम्यात् , तदुच्यते-मिथ्यात्वकषायविषयाभिलाषाभावाद् , असावेव कुतो ?, विशिष्टज्ञानोत्पत्तेः १, सैव कुतो ?, मोहाभावात् , यद्येवमितरेतराश्रयत्वं, तथाहिमोहोऽज्ञानं मोहनीय वा, तदभावो विशिष्टज्ञानोत्पत्तेः, साऽपि तदभावादिति भणता स्पष्टमेव इतरेतराश्रयत्वमुक्तं, ततश्च न यावद्विशिष्टज्ञानोत्पत्तिः संवृत्ता न तावत्कर्मशमनाय प्रवृत्तिः स्यात् , नैषः दोषः, अर्थसंशयेनापि प्रवृत्तिदर्शनादिति । आह च--
संसयं परिआणओ ससारे परिन्नाए भवइ, संसयं अपरियाणओ संसारे अपरिन्नाए
भवइ । सू० १४३॥ 'संसय मित्यादि, संशीतिः संशया-उभयांशावलम्बा प्रतीतिः संशयः, स चार्थसंशयोऽनर्थसंशयश्च, इह चार्थो मोक्षो मोक्षोपायच, तत्र मोक्षे न संशयोऽस्ति, परमपदमितिप्रतिपादनात् , तदुपाये तु संशयेऽपि प्रवृत्तिर्भवत्येव, अर्थसंशयस्य प्रवृत्त्यङ्गत्वात् । अनर्थस्तु संसार: संसारकारणं च, तत्सन्देहेऽपि निवृत्तिः स्यादेव, अनर्थसंशयस्य निवृत्त्यङ्गत्वात , अतः
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥ ३४
॥