________________
श्रीआचारावृत्तिः (शीलाका.)
܀܀܀܀܀܀܀܀܀܀
.३१४॥
से पासइ फुसियमिव कुसग्गे पणन्नं वाएरियं निवझ्यं, एवं बालस्स जीवियं मंदस्स
सम्ब.५ अवियाणओ, कूराई कम्माईबाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परिआसमुवेइ,
PA उद्देशका १ मोहेण गन्भं मरणाइ एइ, एत्थ मोहे पुणो पुणो ॥ सू० १४२॥ 'से पासई त्यादि, 'सः' अपगतमिथ्यात्वपटलः सम्यक्त्वप्रभावावगत पंसारासारः ‘पश्यति' दृशिरुपलब्धिक्रिय इत्यत उपलभते-अवगच्छति किं तत् ?--'फुसियमिय'त्ति कुशाग्र उदकविन्दुमिव बालस्य जीवितमिति सम्बन्धः, तत्किम्भूत- 8 मित्याह--'पणुन्न'मित्यादि, प्रणुत्रम्-अनवरतापरापरोदकपरमाणूपचयात् प्रणुन्नं-प्रेरितं वातेनेरितं वातेरितं सन्निपतितं भाविनि भृतवदुपचारानिपतदेव वा निपतितं, दार्शन्तिकं दर्शयति-'एव'मिति, यथा कुशाग्रे बिन्दुः क्षणसम्भावितस्थितिक एवं बालस्यापि जीवितम् , अवगततत्वो हि स्वयमेवावगच्छति नाप्यसौ तदभिकाङ्क्षति अतो बालग्रहणं, बालो ह्यज्ञः, स चाज्ञानत्वादेव जीवितं बहु मन्यते, यत एव बालोऽत एव मन्दः-सदसद्विवेकापटुः, यत एव बुद्धिमन्दोऽत एव परमार्थ न जानाति, अतः परमार्थमविजानत एवम्भूतं जीवितमित्येवं पश्यति । परमार्थमजानंश्च यत्कुर्यातदाह-'कूराणि'इत्यादि, 'फराणि' निर्दयानि निरनुक्रोशानि 'कर्माणि' अनुष्ठानानि हिंसानृतस्तेयादीनि सकललोकचमत्कृतिकारीणि अष्टादश वा पापस्थानानि 'बालः' अज्ञः प्रकण कुर्वाणः, कभिप्राये क्रियाफले आत्मनेपदविधानात्तस्यैव तक्रियाफलविपाकं दर्शयति-तेन' क्रूरकर्मविपाकापादितेन दुःखेन 'मूढः' किंकर्तव्यताऽऽकुलः,
Bh३६४॥ केन कृतेन ममैतदुःखमुपशम यायादिति मोहमोहितो विपर्यासमुपैति-यदेव प्राण्युपघातादि दुःखोत्पादने कारणं तदुपशमाय