________________
भीआचाराजवृत्तिः (शीलाबा.)
संशयमानर्थगतं परिजानतो हेयोपादेयप्रवृत्तिः स्यादित्येतदेव परमार्थतः संसारपरिज्ञानमिति दर्शयति-तेन संशयं परि
सम्या ५ जानता संसारश्चतुर्गतिकः तदुपादानं वा मिथ्यावाविरत्यादि अनर्थरूपतया परिज्ञातं भवति ज्ञपरिज्ञया, प्रत्याख्यान
उद्देशकः १ परिज्ञया तु परिहृतमिति, यस्तु पुनः संशयं न जानीते स संसारमपि न जानातीति दर्शयितुमाह--'संसयं' इत्यादि, 'ससय' सन्देहं द्विनिधमप्यपरिजानतो हेयोपादेयप्रवृत्तिनं स्यात् , तदप्रवृत्तौ च संसारोऽनित्याशुचिरूपो व्यसनोपनिपातबहुलो निःसारो न ज्ञातो भवति ॥ कुतः पुनरेतनिश्चीयते ? यथा तेन संशयवेदिना संसारः परिज्ञात इति ?, किमत्र निश्चेतव्यं १, संसारपरिज्ञानकार्यविरत्युपलब्धेः तत्र सर्वविरतिप्रष्ठां विरतिं निर्दिदिक्षुराह--
जे छेए से सागारियं न सेवइ, कटु एवमवियाणी विहया मंदस्स बालया, जे खल विसए सेवइ सेवित्ता वा नालोएइ, परेण वा पुट्ठो निण्हवइ, अहवा तं परं सएण वा दोसेण पाविढयरेण वा दोसेण उवलिंपिज्जा) लडा हुरत्था पडिलेहाए आगमित्ता
आणविजा अणासेवणय त्तिमि ॥ सू.१४४॥ 'जे छए' इत्यादि यश्छेको-निपुण उपलब्धपुण्यपापः स 'सागारिय'ति वैथुनं न सेवते मनोवाकायकर्मभिः, स । एव यथावस्थितसंसारवेदी, यस्तु पुनर्मोहनीयोदयात्पाश्वस्थादिः तत्सेवते, सेवित्वा च सातगौरवमयात किं कुर्यादित्याह'कटटु' इत्यादि, रहसि मैथुनप्रसङ्गं कृत्वा पुनर्गुदिना पृष्टः सन्नपलपति, तस्य चैवमकार्यमपलपतोऽविज्ञापयतो वा
॥ ३६६ किं स्यादित्याह-विइया' इत्यादि, 'मन्दस्य' अबुद्धिमत एकमकार्यासेवनमियं चालता-अज्ञानता, द्वितीया तदपहवनं