________________
भीआचा
गङ्गवृत्तिः
(शीलाङ्का.)
॥ ३९२ ॥
मिति गाथार्थः । उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारयितव्यं तच्चेदम् -
आवंती के यावंती लोयंसि विप्परामुसंति अट्ठाए अणट्ठाए, एएसु वेव विप्रामुसंति (जावंति केइ लोए छक्कायवहं समारभंति अट्ठाए अहाए), गुरु से कामा, तओ से मारते, जओ से मारते तओ से दूरे, नेव से अंतो नेव दूरे ॥ सू० १४१ ।।
'आवन्ती'ति यावन्तो जीवा मनुष्या असंयता वा स्युः, 'के आवंति'त्ति केचन 'लोके' चतुर्दशरज्ज्वात्मके गृहस्थान्यतीर्थिकलो के वा षड्जीवनिकायान् आरम्भप्रवृत्ता विविधम्-- अनेकप्रकारं विषयाभिलाषितया 'परामृशन्ति' उपतापयन्ति, दण्डकशताडनादिभिर्घातयन्तीत्यर्थः, किमर्थं विपरामृशन्तीति दर्शयति- 'अर्था' अर्थार्थं अर्थाद्वा अर्थःप्रयोजनं धर्मार्थकामरूपं, कर्माणि ल्यब्लोपे पञ्चमी, अर्थमुद्दिश्य-प्रयोजनमुत्प्रेक्ष्य प्राणिनो घातयन्ति, तथाहि-- धर्म - निमित्तं शौचार्थं पृथिवीकायं समारभन्ते, अर्थार्थं कृष्यादि करोति, कामार्थमाभरणादि, एवं शेषेष्वपि कायेषु यथायोगं वाच्यं, 'अणडाएत्ति' अनर्थाद्वा -- प्रयोजनमनुद्दिश्यैव तच्छीलतयैव मृगयाद्याः प्राण्युपघातकारिणीः क्रियाः कुर्वन्ति, तदेवमर्थादर्थाद्वा प्राणिनो हत्वा एतेष्वेव--षड्जीवनिकायस्थानेषु विविधम्-- अनेकप्रकारं सूक्ष्मबादरपर्याप्तकापर्यातकादिमेदेन ताकेन्द्रिययादीन् प्राणिनस्तदुपघातकारिणः परामृशन्ति, तान् प्रपीड्य तेष्वेवानेकश उत्पद्यन्त इतियावद्, यदिवा तत्षड्जीवनिकायबाधाऽवाप्तं कर्म्म तेष्वेव कायेषूत्पद्य ते तैस्तैः प्रकारैरुदीर्ण विपरामृशन्ति-- अनुभवन्तीति, नागार्ज्जुनीयास्तु पठन्ति - " जावंति केइ लोए लक्कायवहं समारभंति अट्ठाए अणट्ठाए वा " इत्यादि, गतार्थं स्याद्
सम्य• ५ उद्देशकः १
॥ ३९२ ॥