________________
शङ्कापदव्युदासकार्य गाथाशकलेन दर्शयति-अस्ति जीवः, अस्य च पदार्थानामादावुपन्यासाज्जीवपदार्थस्य च प्राधान्या॥३९१ ॥
दुपलक्षणार्थत्वाद्वा शेषपदार्थग्रहणं, अस्ति--विद्यते जीवितवान् जीवति जीविष्यतीति वा जीवः शुमाशुभफलभोक्तेति, स च प्रत्यक्ष एवाईप्रत्ययसाध्या, इच्छाद्वषप्रयत्नादिकार्यानुमानसाध्यो वा, तथा अजीवा अपि धर्माधर्माकाशपुद्गला गतिस्थित्यवगाहद्वयणकादिस्कन्धहेतवः सन्ति, एवमास्रवसंवग्बन्धनिर्जरा अपि विद्यन्ते, प्रधान पुरुषार्थत्वाद् आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वादाद्यं जीवपदार्थ साक्षादुपन्यस्यान्त्यं मोक्षपदार्थमुपन्यस्यति--परमं च तत्पदं च परमपदं, तच्चास्तीति सम्बन्ध इति अस्ति मोक्षः शुद्धपदवाच्यत्वाद् बन्धस्य सप्रतिपक्षत्वान्मोक्षाविनाभावित्वाद्वा बन्धस्येति, सत्यपि मोते यदि तदवाप्तावुपायो न स्यात्ततो जनाः किं कुयु रित्यतस्तत्कारणेऽस्तित्वं दर्शयति-'यतना'यत्नो रागद्वेषेषु, रागद्वेषोपशमाद्यः संयमोऽसावप्यस्तीति । तदेवं सति जीवे परमपदे च शङ्कापदव्युदासेन ज्ञानादिकं सारपदं दृढेन
ग्राह्यमिति गाथार्थः ॥ ततोऽप्यपरापरप्रकर्षगतिरस्तीति दर्शयन्नुपक्षेपमाहBa लोगस्स उ को सारो तस्स य सारस्स को हवइसारो तस्स य सारोसारं जइ जाणसि पुच्छिओसाह ॥२४४ ___ 'लोकस्य' चतुर्दशरज्ज्वात्मकस्य का सारः १ तस्यापि सारस्य कोऽपरः सारा ?, तस्यापि सारसारस्य सारं यदि बानामि ततः पृष्टो मया कथयेति गाथार्थः ॥ प्रश्नप्रतिवचनार्थमाहलोगस्स सार धम्मो धम्मपि य नाणसारियं विंति। नाणं संजमसारं संजमसार च निव्वाणं ॥२४५।। समस्तस्यापि लोकस्य तावद्धर्मः सारो, धर्ममपि ज्ञानसारं ब्रवते, ज्ञानमपि संयमसारं, संयमस्यापि सारभृतं निर्वाण