________________
भीआचारावृत्तिः (शीलाका
सम्य. ५ उद्देशकः १
॥३९.॥
8 उत्तमसुखं तेन वरिष्ठा-बरतमा, तत्साधनानि च गाथाशकलेन दर्शयति-साधनकानि' प्रकृष्टोपकारकाणि ज्ञानदर्शनसंयमतपसि, तस्मिश्च भावसारे सिद्धाख्यफल साधने ज्ञानादिके प्रकृतं ज्ञानदर्शनचारित्रेण भावसाररूपेणात्राधिकार इति गाथार्थः॥ तस्यैव ज्ञानादेः सिद्धय पायस्य भावसारता प्रतिपादयन्नाहलोगंमि कुसमएसु य कामपरिग्गहकुमग्गलग्गेसु। सारो हु नाणदसणतवचरणगुणा हियहाए ॥२४२॥
'लोके' गृहस्थलोके कुत्सिताः समयाः कुसमयाः तेषु च किम्भूतेषु ?-कामपरिग्रहेण ये कुत्सिता मार्गास्तेषु लग्नेषु, हुर्हेतौ, यस्मालोकः कामपरिग्रहाग्रही गृहस्थभावमेव प्रशंसति, वक्ति च-'गृहाश्रमसमो धर्मो, न भूतो न भविष्यति। पालयन्ति नराः शूराः, क्लोषाः पाषण्डमाश्रिताः ॥ १॥ गृहाश्रमाघाराश्च सर्वेऽपि पापण्डिनः इत्येवं महामोहमोहित इच्छामदनकामेषु प्रवर्तते, तथा तीथिका अप्यनिरुद्धन्द्रियप्रसग द्विरूपकामाभिध्वङ्गिणः इत्यतस्तेषु सारो ज्ञानदर्शनतपश्चरणगुणाः, उत्तमसुखवरिष्ठसिद्धिहेतुत्वात्, हिता-सिद्धिस्तदर्थत्वादिति गाथार्थः ॥ यतो ज्ञानदर्शनतपश्चरणगुणा हितार्थतया सारस्तस्मारिक कर्तव्यमित्याहचइऊणं संकपयं सारपयमिण दढेण पित्तव्यं । अत्थि जिओ परमपयं जयणा जा रागदोसेहिं ॥२४३।।
'त्यक्त्वा' प्रोज्झ्य, किं तत् !-'शङ्कापदं' किमेतन्मदारब्धमनुष्ठानं निष्फलं स्यादित्येवंम्भूतो विकल्पः शङ्का तस्याः पद-निमित्तकारणं तच्चाहत्प्रोक्तेप्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्य वर्थेषु या संशीतिः-सन्देह इत्येतद्रूपं तच्छकापदं विहाय सारपद-इदं ज्ञानादिकं प्रागुपन्यस्तं दृढेन--अनन्यमनस्केन तीर्थिकदम्भप्रतारणाक्षोम्येन ग्राह्य, तदेव