________________
॥ २५ ॥
एता मोहोदयजाः, लोकसंज्ञा स्वच्छन्दघटितविकन्परूपा लौकिकाचरिता, यथा- न सन्त्यनपत्यस्य लोकाः, श्वानो कक्षाः, विप्रा देवाः, काकाः पितामहाः, बर्हिणां पक्षवातेन गर्भ इत्येवमादिका ज्ञानावरगयान्पक्षयोपशमान्मोहोदयाच्च भवति, धर्म्मसंज्ञा क्षमाद्यासेवनरूपा मोहनीयक्षयोपशमाज्जायते, एताश्चाविशेषोपादानात्यञ्चेन्द्रिययाणां सम्यग्मिथ्यादृशां द्रष्टव्याः, ओघसंज्ञा तु अव्यक्तोपयोगरूपा वलिवितानारोहणादिलिङ्गा ज्ञानावरणीयान्पक्षयोपशमसमुत्था द्रष्टव्येति । इह पुनर्ज्ञानसंज्ञयाऽधिकारो, यतः सूत्रे सैव निषिद्धा 'इह एकेषां नो संज्ञां ज्ञानम् -अवबोधो भवती 'ति ॥ १ ॥ प्रतिषिद्धज्ञानविशेषावगमार्थमाह सूत्रम् -
जहा - पुरत्थिमाओ वा दिसाओ आगओ अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पचfत्थमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्डा वा दिसाओ आगओ अहंमंसि, अहोदिसाओ वा आगओ अहमंसि, अण्णयरीओ वा दिसाओ अदिसाओ वा आगओ अहमंसि, एवमेगेसिं णो णायं भवति ॥ सू० २ ॥
" तंजहेत्यादि णो णायं भवतीति यावत्" तद्यथेति प्रतिज्ञातार्थोदाहरणं, 'पुरत्थिमाउ'त्ति प्राकृतशैल्या मागधदेशी भाषानुवृत्या पूर्वस्या दिशोऽभिधायकात् पुरत्थिमशब्दात्पञ्चम्यन्तात्तसा निर्देशः, वाशब्द उत्तरपक्षापेक्षया विकल्पार्थः, यथा लोके भोक्तव्यं वा शयितव्यं वेति एवं पूर्वस्या वा दक्षिणस्या वेति । दिशतीति दिकू, अतिसृजति व्यपदिशति द्रव्यं द्रव्यभागं वेति भावः ॥ तां नियुक्तिकभिक्षेप्तुमाह-
॥ २५ ॥