________________
श्रीआचाराङ्गवृत्तिः (शालाङ्का ॥२४॥
ध्ययनं १ उद्देशकः १
स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्याद् ॥ १॥ इति, एवमिहापि न सर्वसंज्ञानिषेधः, अपितु विशिष्टसंज्ञानिषेधो, ययाऽऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति ॥ साम्प्रतं नियुक्तिकृत्सूत्रावयवनिक्षेपार्थमाहदव्वे सचित्ताई भावेऽणुभवणजाणणा सण्णा । मति होइ जाणणा पुण अणुभवणा कम्मसंजुत्ता॥३८॥
संज्ञा नामादिभेदाच्चतुर्दा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीस्व्यतिरिक्ता सचित्ताचित्तमिश्रभेदात्रिधा, सचित्तेन हस्तादिद्रव्येण पानभोजनादिसंज्ञा अचित्तेन ध्वजादिना मिश्रेण प्रदीपादिना संज्ञानं-संज्ञा अवगम इति कृत्वा, भावसंज्ञा पुनर्द्विधा-अनुभवनसंज्ञा ज्ञानसंज्ञा च, तत्रान्पव्याख्येयत्वात्तावत् ज्ञानसंज्ञा दर्शयति-'मइ होइ जाणणा पुण'त्ति मननं मतिः-अवबोधः सा च मलिज्ञानादिः पञ्चधा, तत्र केवलसंज्ञा क्षायिकी शेषास्तु क्षायोपशमियः, अनुभवनसंज्ञा तु स्वकृतकर्मोदयादिसमुत्था जन्तोर्जायते, सा च षोडशभेदेति दर्शयति
आहार भय परिग्गह मेहुण सुख दुक्ख मोह वितिगिच्छा।
कोह माण 'माय लोहे सोगे लोगे य धम्मोहे ॥ ३९ ॥ आहाराभिलाष आहारसंज्ञा, सा-च तैजसशरीरनामकम्र्मोदयादसातोदयाच्च भवति, भयसंज्ञा त्रासरूपा, परिग्रहसंज्ञा मृ रूपा, मेथुनसंज्ञा स्त्र्यादिवेदोदयरूपा, एताश्च मोहनीयोदयात् , सुखदुःखसंज्ञे सातासातानुभवरूपे वेदनीयोदयजे, मोहसंज्ञा पिथ्यादर्शनरूपा मोहोदयात् , विचिकित्सासंज्ञा चित्तविप्लुतिरूपा महोदयात् ज्ञानावरणीयोदयाच्च, क्रोधसंज्ञा अप्रीतिरूपा, मानसंज्ञा गर्वरूपा, मायासंज्ञा वक्रतारूपा, लोभसंज्ञा द्धिरूपा, शोकसंज्ञा विप्रलापवैमनस्यरूपा,
॥ २४ ॥