________________
नित्यत्वमाह, 'इहे ति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वा आख्यातमितिसंबन्धो, यदि वा-'इहे'ति संसारे 'एकेषां' ज्ञानावरणीयावृतानां प्राणिनां 'नो संज्ञा भवति' संज्ञानं संज्ञा स्मृतिरवबोध इत्यनर्थान्तरं, सा नो प्रजायत इत्यर्थः उक्तः पदार्थः, पदविग्रहस्य तु सामासिकपदाभावादप्रकटनम् । इदानी चालना-ननु चाकारादिकप्रतिषेधकलघुशब्दसंभवे सति किमर्थं नोशब्देन प्रतिषेधः इति ?, अत्र प्रत्यवस्था, सत्यमेवं, किंतु प्रेक्षापूर्वकारितया नोशब्दोपादानं, सा चेयम्-अन्येन प्रतिषेधेन सर्वनिषेधः स्याद्, यथा न घटोऽघट इति चोक्ते सर्वात्मना घटनिषेधः, स च नेष्यते, यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनामभिहितास्तासां सर्वासां प्रतिषेधः प्राप्नोतीतिकृत्वा, ताश्चेमाः-'कइ णं भंते ! सण्णाओ पणत्ताओ?, गोयमा ! दस सण्णाओ पण्णत्ताओ, तंजहा-आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा कोहसण्णा माणसण्णा मायासण्णा लोभसण्णा ओहसण्णा लोगसण्ण"त्ति आस च प्रतिषेधे स्पष्टो दोषः, अतो नोशब्देन प्रतिषेधनमकारि, यतोऽयं सर्वनिषेधवाची देशनिषेधवाची च, तथाहि-नोघट ही इत्युक्ते तथा घटाभावमात्रं प्रतीयते, तथा प्रकरणादिप्रसक्तस्य विधानं, स पुनर्विधीयमानः प्रतिषेध्यावयवो ग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति, तथा चोक्तम्-"प्रतिषेधयति समस्तं प्रसक्तमर्थ च जगति नोशब्दः।
१ कति मदन्त ! संज्ञाः प्रज्ञप्ताः', गौतम ! दश संज्ञा: प्रज्ञप्ताः, तद्यथा-आहारसंज्ञा भयसंश। मथुनसंज्ञा परिग्रहसंज्ञा कोधसंज्ञा मानसंज्ञा मायासंहा लोभसंज्ञा ओघसंज्ञा लोकसंज्ञा ।
२०क्त घटाभावमात्रं प्रतीयते भर्थप्रसक्तनिषेधेन चाप्रसक्तस्य प्र.
।। २३ ॥