________________
सुयं मे आडसं! तेणं (आमुसंतेणं, आवसतेणं) भगवया एवमक्खायं इहमेगेसिं णो सण्णा भवइ
अध्ययनं १ श्रीआचा-81॥ सू०१॥ राङ्गवृत्तिः
सुत्तं अट्ठहि य गुणे हिं उववेयं ॥१॥' इत्यादि, तच्चेदं सूत्रम् -'सुयं मे आउसं ! तेणं भगवया एवमक्खायं- उद्देशकः १ (शीलाङ्का.
इहमेगेसिं णो सण्णा भवति' अस्य संहितादिक्रमेण व्याख्या-संहितोचारितैव, पदच्छेदस्त्वयम्-श्रुतं मया आयुष्मन ! तेन भगवता एवमाख्यातम्-इह एकेषां नो संज्ञा भवति । एक तिङन्तं शेषाणि सुबन्तानि, गतः सपदच्छेदः सूत्रानुगमः, साम्प्रतं सूत्रपदार्थः समुन्नीयते-भगवान् सुधर्मस्वामी जंबूनाम्न इदमाचष्टे यथा-श्रुतम्' आकर्णितमवगतमधारितमितियावद्, अनेन स्वमनीषिकाव्युदासो, 'मयेति साक्षान पुनः पारम्पर्येण 'आयुस्मन्निति जात्यादिगुणसंभवेऽपि दीर्घायुष्कत्वगुणोपादानं दीर्घायुरविच्छेदेन शिष्योपदेशप्रदायको यथा स्यात् , इहाचारस्य व्याचिख्यासितत्वात्तदर्थस्य | च तीर्थकृत्प्रणीतत्वादिति सामर्थ्यप्रापितं तेनेति तीर्थकरमाह, यदि वा–आमृशता भगवत्पादारविन्दम् , अनेन विनय आवेदितो भवति, आवसता वा तदन्तिके इत्यनेन गुरुकुलवासः कर्तव्य इत्यावेदितं भवति, एतचार्थद्वयं 'आमुसंतेण आवसंतेणे'त्येतत्पाठान्तरमाश्रित्यावगन्तव्यमिति, 'भगवते ति भगः-ऐश्वर्यादिषडर्थात्मकः सोऽस्यास्तीति भगवान् तेन, 'एव'मिति वक्ष्यमाणविधिना 'आख्यात'मित्यनेन कृतकत्वव्युदासेनार्थरूपतया आगमस्य १ चूर्ण्यभिप्रायेण द्वितीयसूत्रावतरणमेतत् .
Blu२२ ॥ २ पत्तेय पत्तेयं (गणहरा) सिस्सेहिं पज्जुवासिज्जमाणा एवं भणंति-'सुयं मे० (इति चूर्णिः).
ܪܬܢ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀