________________
भीआचाराङ्गवृत्तिः
(शीलाङ्का.)
॥ ३७४ ॥
मृताचः, अकषायिण इत्यर्थः, किं च - 'धम्मं ' श्रुतचारित्राख्यं विदन्तीति धर्म्मविदः, इति हेतौ यत एव धर्म्मविदोऽत एव ऋजवः- कौटिल्यरहिता: । स्थादेतत्- किमालम्ब्यैतद्विधेयमित्यत आह- 'आरंभज' मित्यादि, सावद्यक्रियानुष्ठानमारम्भस्तस्माज्जातमारम्भजं, किं तद् १ - दुःखमिदमिति सकलप्राणिप्रत्यक्षं, तथाहि — कृषिसेवा वाणिज्याद्यारम्भप्रवृत्तो यच्छारीरमानसं दुःखमनुभवति तद्वाचामगोचरमित्यतः प्रत्यक्षाभिधायिनेदमोक्तम्, 'इतिः' उपप्रदर्शने, इत्येतदनुभवसिद्ध दुःखं ज्ञात्वा मृताच्च धर्म्मविद ऋजवश्च भवन्तीति । एतच्च समस्तवेदिनो भाषन्त इति दर्शयति — 'एव' मित्यादि, ' एवं ' पूर्वोक्तप्रकारेण 'आहुः' उक्तवन्तः, के एवमाहुः ? - समत्वदर्शिनः सम्यक्त्वदर्शिनः समस्तदर्शिनो वा यदुदेशका देरारभ्योक्तं तदेवमृचुरित्यर्थः कस्मात्त ऊचुरित्याह- 'ते सव्वे' इत्यादि, यस्मात्ते सर्वेऽपि सर्वविदः 'प्रावादिकाः' प्रकर्षेण मर्यादया वदितु ं शीलं येषां ते प्रावादिनः, त एव प्रावादिका :- यथावस्थितार्थस्य प्रतिपादनाय वावदूकाः, 'दुःखस्य' शारीरमानसलक्षणस्य तदुपादानस्य वा कर्म्मणः 'कुशला' निपुणास्तदपनोदोपायवेदिनः सन्तः ते सर्वेऽपि ज्ञपरिज्ञया परिज्ञाय हेयार्थस्य प्रत्याख्यान परिज्ञामुदाहरन्ति, 'इतिः' उपप्रदर्शने, इत्येवं पूर्वोक्तनीत्या कर्मबन्धोदयसत्कर्म्मताविधानतः परिज्ञाय 'सर्वशः' सर्वैः प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति यदिवा मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकारा अष्टौ उत्तरप्रकृतिप्रकारा अष्टपञ्चाशदुत्तरं शतम्, अथवा प्रकृतिस्थित्यनु माग प्रदेशप्रकारैः, यदिवोदयप्रकारैर्बन्ध सत्कर्मता कार्यभूतै रागामिबन्धसत्कर्मताकारणैश्च कर्म्म परिज्ञायेति, ते चामी उदयप्रकाराः, तद्यथा - मूलप्रकृतिनां त्रीण्युदयस्थानानि, अष्टविधं सप्तविधं चतुर्विधमिति, तत्राष्टापि कर्म्मश्रकृती यौगपद्येन वेदयतोऽष्ट
सम्य• ४
उद्देशकः ३
॥ ३७४ ॥