________________
॥३७३॥
दंडा, जे के सत्ता पलियं चयंति, नरा मुयच्चा धम्मविउत्ति अंजू, आरंभ दुक्खमिणति गच्चा, एषमाहु संमत्तदंसिणो, ते सव्वे पावाइया दुक्खस्स कुसला परिण
मुदाहरंति इय कम्मं परिणाय सध्वसो ॥ सू० १३४ ॥ योऽयमनन्तरं प्रतिपादितः पापण्डिलोकः एनं धम्माद्वहिर्व्यवस्थितमुपेक्षस्व-तदनुष्ठानं मा अनुप्रस्थाः, चशब्दोऽ. नुक्तसमुच्चयार्थः, तदुपदेशमभिगमनपयुपासनदानसंस्तवानादिकं च मा कृथा इति । यः पाण्डिलोकोपेक्षकः स के गुणमवाप्नुयादित्याह-'से सव्वलोए' इत्यादि, यः पापण्डिलोकमनायवचनमवगम्य तदुपेतां विधत्ते स सर्वस्मिल्लोके-मनुष्यलोके ये केचिद्विद्वांसस्तेभ्योऽग्रणीविद्वत्तम इति स्यात् , लोके केचन विद्वांसः सन्ति ? येभ्योऽधिकः स्यादित्यत आह–'अणुवीइ' इत्यादि, ये केचन लोके 'निक्षिप्तदण्डा। निश्चयेन क्षिप्तो निक्षिप्तः - परित्यक्तः कायमनोवाङ्मयः प्राण्युपपातकारी दण्डो यस्ते विद्वांसो भवन्त्येव एतदनुविचिन्त्य-पर्यालोच्य पश्य-अवगच्छ । के चोपरतदण्डा इत्यत आह-'जे केइ' इत्यादि, ये केचनावगतधर्माणः सवाः-प्राणिनः 'पलित'मिति कर्म तत्त्यजन्ति, ये चोपरतदण्डा भूत्वाऽष्टप्रकारं कर्म घ्नन्ति ते विद्वांस इत्येतदनुविचिन्त्य-अक्षिनिमीलनेन पर्यालोच्य 'पश्य' विवेकिन्या मत्याऽवधारय । के पुनरशेषकर्मक्षयं कुर्वन्ति ? इत्यत आह-'नरे' इत्यादि; नराः-मनुष्यास्त एवाशेषकर्मक्षयायालं नान्ये, तेऽपि न सर्वे अपि तु मृतार्चा-मृतेव मृता संस्कारामावादा शरीरं येषां ते तथा, निष्प्रतिकर्मशरीरा इत्यर्थः, यदिवा अध्र्चा-तेजः, स च क्रोधः, स च कषायोपलक्षणार्थः, ततश्चायमों-मृता-विनष्टा अर्चा कषायरूपा येषां ते
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀