________________
सम्य०४ उद्देशक:३
भीआचाराजवृत्तिः (चीलाङ्का. ॥ ३७२॥
चत-हे मुग्ध । ननु कथित एव धम्मों भवतः शुष्केतरगोलकदृष्टान्तेन । एतदेव गाथाद्वयेनाहउल्लो सुक्को य दो छुढा, गोलया मट्टियामया। दोवि आवडिया कुडडे,जो उल्लो तत्थ (सोऽत्थ) लग्गइ ॥२३॥ एवं लग्गति दुम्मेहा, जे नरा कामलालसा। विरत्ता उ न लग्गति, जहा से सुक्कगोलए ॥ २३३ ॥ ___ अयमत्र भावार्थ:-ये ह्यङ्गप्रत्यङ्गनिरीक्षणव्यासङ्गात् कामिनीनां मुखं न पश्यन्ति तदभावे तु पश्यन्ति ते कामगृध्नुतया सार्दाः, सार्द्रतया च संसारपङ्के कर्मकर्दमे वा लगन्ति, ये तु पुनः क्षान्त्यादिगुणोपेताः संसारसुखपराङ्मुखाः काष्ठमुनयस्ते शुष्कगोलकसन्निभा न क्वचिल्लगन्तीति गाथाद्वयार्थः । सम्यक्त्वाध्ययने द्वितीयोद्देशकनियुक्तिः। इति सम्यक्त्वाध्ययने द्वितीयोदेशकः समाप्तः ॥ ४-२॥
। अथ चतुर्थाध्ययने तृतीयोद्देशकः ॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके परमतव्युदासद्वारेण सम्यक्त्वमविचलं प्रतिपादयता तत्सहचरितं ज्ञानं तत्फलभूता च विरतिरभिहिता, सत्यपि चास्मिस्त्रये न पूर्वोपात्तकर्मणो निश्वद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीत्यतस्तदधुना प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
उवेहि णं पहिया य लोगं, से सव्वलोगमि जे केइ विष्णू, अणुवीइ पास निक्खित्तः
॥३७२॥