SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ॥ ३७५॥ विधं, तरुचकालतोऽनादिकमपर्यवसितमभव्यानां भव्यानां त्वनादि-सपर्यवसितं सादिसपर्यवसितं चेनि, मोहनीयोपशमे क्षये वा सप्तविधं, घातिक्षये चतुर्विधमिति । साम्प्रतमुत्तरप्रकृतिनामुदयस्थानान्युच्यन्ते, तत्र ज्ञानावरणीयान्तराययोः पञ्चप्रकार एकमुदयस्थानं, दर्शनावरणीयस्य द्वे, दर्शनचतुष्कस्योदयाच्चत्वारि अन्यतरनिद्रया सह पश्च, वेदनीयस्य सामान्येनैकमुदयस्थानं, सातमसातं वेति, विरोधाद्योगपद्योदयाभावः, मोहनीयस्य सामान्येन नवोदयस्थानानि, तद्यथा-दश नव अष्टौ सप्त षट् पश्च चत्वारि द्वे एकं चेति, तत्र दश मिथ्यात्वं १ अनन्तानुबन्धी क्रोधोऽप्रत्याख्यानः प्रत्याख्यानावरणः सज्वलनश्चेत्येतत्क्रोधचतुष्टयम् ५ एवं मानादिचतुष्टयमपि योज्यं अन्यतरो वेदः ६ हास्यरतियुग्मम् अरतिशोकयुग्मं वा ८ भयंह जुगुप्सा १० चेति, भयजुगुप्सयोरन्यतराभावे नव, द्वयाभावेऽष्टौ, अनन्तानुबन्ध्यभावे सप्त, मिथ्यात्वाभावे षट् , अप्रत्याख्यानोदयाभावे पश्च, प्रत्याख्यानावरणाभावे चत्वारि, परिवर्त्तमानयुगलाभावे सज्वलनान्यतरवेदोदये सति द्वे, वेदाभावे एकमिति, आयुषोऽप्यकमेवोदयस्थानं चतुर्णामायुषामन्यतरदिति, नाम्नो द्वादशोदयस्थानानि, तद्यथा-विंशनिः एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनविंशत् त्रिंशत् एकत्रिंशत् नव अष्टौ चेति, तत्र संसारस्थानां सयोगिनां जीवानां दशोदयस्थानानि नाम्नो भवन्ति, अयोगिनां तु चरमद्वयमिति, अत्र च द्वादश ध्रवोदयाः कर्मप्रकृतयः, तद्यथा-तैजसकानेणे शरीरे २ वर्णगन्धरसस्पर्शचतुष्टयं ६ अगुरुलघु ७ स्थिरं - अस्थिरंह शुभं १० अशुभं ११ निर्माण १२ मिति, तत्र विंशतिरतीर्थकरकेवलिनः समुद्घातगतस्य कार्मणशरीरयोगिनो भवति, तद्यथा-मनुष्यगतिः १ पञ्चेन्द्रियजातिः २ असं ३ बादरं ४ पर्याप्तकं ५ सुभगं आदेयं ७ यशः कीर्तिरिति ८ धनो ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥३७५॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy