________________
भीआचाराङ्गवृत्तिः
(शीलाङ्का.)
॥ ३७० ॥
गाथाभिराचष्टे
खुड्डग पायसमासं धम्मकहंपि य अजंपमाणेणं । छत्रेण अन्नलिंगी परिच्छिया रोहगुत्तेणं ॥ २२७॥ अनया गाथया सङ्क्षेपतः सर्वं कथानकमावेदितं क्षुल्लकस्य, 'पादसमासो' गाथा पादसङ्क्षेपस्तम जल्पता धर्म्मकथां च 'छन्नेन' अप्रकटेन 'अन्यलिङ्गिनः प्रावादुकाः परीक्षिताः' निरूपिता: 'रोहगुप्तेन' रोहगुप्तनाम्ना मन्त्रिणेति गाथासमासार्थः । भावार्थस्तु कथानकादवसेयः, तच्चेदम् - चम्पायां नगर्यां सिंहसेनस्य राज्ञो रोहगुप्तो नाम महामन्त्री, स चार्हदूदर्शनभावितान्तःकरणो विज्ञातसदसद्वादः, तत्र च कदाचिद्राजाऽऽस्थानस्थो धर्म्मविचारं प्रस्तावयति, तत्र यो यस्थाभिमतः स तं शोभनमुवाच स च तूष्णीभावं भजमानो राज्ञोक्तः- धर्म्मविचारं प्रति किमपि न ब्रूते भवान् ९, सत्वाहकिमेभिः पक्षपातव घोभिः ? विमर्शामः स्वत एव धर्मं परीक्षामहे तीर्थिकानित्यभिधाय राजानुमत्या 'सकुण्डलं वा वदनं न वत्ति, अयं गाथापादो नगरमध्ये आललम्बे, सम्पूर्णा तु गाथा भाण्डागारिता, नगर्यां चोद्धुष्टं, यथा-य एनं गाथापादं पूरयिष्यति तस्य राजा यथेप्सितं दानं दास्यति तद्भक्तश्च भविष्यतीति तं च गाथापादं सर्वेऽपि गृहीत्वा प्रावादुका निर्जग्मुः पुनश्व सप्तमेऽहनि राजानामस्थानस्थमुपस्थिताः, तत्रादावेव परिव्राड् ब्रवीति
भिक्खं पविद्वेण मएज्ज दिट्ठ, पमयामुहं कमलविसालनेत्तं । बक्खित्तचित्तेण न सुट्टु नायं, सकुडलं वा वयणं न वत्ति ॥ २२८ ॥
सुगमं नवरमपरिज्ञाने व्याक्षेपः कारणमुपन्यस्तं न पुनर्वीतरागतेति पूर्वगाथाविसंवादादसौ तिरस्कृत्य निर्द्धाटितः ।
सम्य० ४ उद्देशकः २
॥ ३७० ॥