SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ॥३६ ॥ 0 . इति, तान्येव पदानि सप्रतिषेधानि तु हन्तव्यादीनि यावन केवलमत्र-अस्मदीये वचने नास्ति दोषोऽत्रापि-अधिकारे जानीथ यूयं यथा 'अत्र' हननादिप्रतिषेधविधौ नास्ति दोषा-पापानुबन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्राण्युपघातप्रतिषेधाच्चार्यवचनमेतत् , एवमुक्ते सति ते पाषण्डिका ऊचुः-भवदीयमार्यवचनमस्मदीयं त्वनार्यमित्येतनिग्न्तराः सुहृदः प्रत्येष्यन्ति, युक्तिविकलत्वात् , तदत्राचार्यों यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो न विचलयिष्यन्तीतिकृत्वा प्रत्येकमतप्रच्छनार्थमाह-'पुव्व' मित्यादि, 'पूर्वम् आदावेव 'समयम्' आगमं यद्यदीयागमेऽभिहितं तत् 'निकाच्य' व्यवस्थाप्य पुनस्तद्विरूपापादनेन परमतानार्यता प्रतिपाद्येत्यतस्तदेव परमतं प्रश्नयति, यदिवा पूर्व प्राश्निकान्निकाच्य ततः पाण्डिकान् प्रश्नयितुमाह-'पत्तेय' मित्यादि, एकमेकं प्रति प्रत्येकं भोः प्रावादुकाः ! भवतः प्रश्नयिष्यामि, कि 'भे' युष्माकं 'सातं' मनआह्लादकारि दुःखमुतासातं-मनःप्रतिकूलं ?, एवं पृष्टाः सन्तो यदि सातमित्येवं व युः ततः प्रत्यक्षागमलोकवाधा स्याद्, अथ चासातमित्येवं व युः ततः 'समिया' सम्यक प्रतिपन्नांस्तान् प्रावादुकान स्ववाग्यन्त्रितानप्येवं ब्रूयात्-'अपिः' सम्भावने सम्भाव्यते एतद्भणनं-यथा न केवलं भवतां दुःखमसातं, सर्वेषामपि प्राणिनां दुःखमसातं मनसोऽनभिप्रेतम् अपरिनिर्वाणम्-अनिवृत्तिरूपं महद्भयं दुःखमित्येतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यं, तद्धनने च दोषः, यस्त्वदोषमाह तदनार्यवचनम् । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् , तदेवं प्रावादुकानां स्ववाग्नियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्तमन्त्रिणा विदितागमसद्भावेन माध्यस्थ्यमवलम्बमानेन तीर्थिकपरीक्षाद्वारेण यथा निराकरणं चक्रे तथा नियुक्तिकागे ॥३६8 ।
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy