________________
॥३६५॥
मिच्छया प्रणीतत्वादिन्द्रियवशगास्तद्वशित्वात्तदनुकूलमाचरन्तो नरकादियातनास्थानजातसंस्तवास्तीथिका अप्यौदेशिकादि निर्दोषमाचक्षाणा 'अधऔपपातिकान्' नरकादिभवान् 'स्पर्शान्' दुःखानुभवान् 'प्रतिसंवेदयन्ति' अनुभवन्ति, तथाहि-लोकायतिका ब्रवते-"पिब खाद च चारुलोचने !, यदतोतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥१॥" वैशेषिका अपि सावधयोगारम्भिणः, तथाहि ते भाषन्ते'अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदानमो(प्रो)क्षणदिग्नक्षत्रमन्त्रकालनियमाः' इत्यादि, अन्येऽपि सावद्ययोगानुष्ठायिनोऽनया दिशा वाच्याः, स्यात् किं सर्वोऽपीच्छाप्रणीतादिर्यावत्तत्र तत्र कृतसंस्तवोऽधऔपपातिकान् स्पर्शान प्रतिसंवेदयत्याहोस्वित्कश्चिदेव तद्योग्यकर्मकार्येवानुभवति ?, न सर्व इति दर्शयति–'चिट्ठ' इत्यादि, चि-भृशमत्यर्थ 'करैः' वधवन्धादिभिः 'कर्मभिः' क्रियाभिः 'चिट्ठ'मिति भृशमत्यर्थमेव विरूपा दशां वैतरणीतरणासिपत्रवनपत्रपाताभिघातशाल्मलीवृक्षालिङ्गनादिजनितामनुभवंस्तमस्तमादिस्थानेषु परितिष्ठति, यस्तु नात्यर्थं हिंसादिभिः कर्मभिर्वर्तते सोऽत्यन्तवेनानिचितेष्वपि नरकेषु नोत्पद्यते, स्यात्-क एवं वदन्तीत्याह-'एगे वयंती' त्यादि, 'एके' चतुर्दशपूर्वविदादयो 'वदन्ति' ब्रुवतेऽथवाऽपि ज्ञानी वदति, ज्ञानं-सकलपदार्थाविर्भावकम् अस्यास्तीति ज्ञानी, स चैतद् ब्रवीति, यद्दिव्यज्ञानी केवली माषते श्रुतकेवलिनोऽपि तदेव भाषन्ते, यच्च श्रुतकेवलिनो भाषन्ते निरावरणज्ञानिनोऽपि तदेव वदन्तीत्येतद्गतप्रत्यागतसूत्रेण दर्शयति-'नाणी' इत्यादि, 'ज्ञानिन' केवलिनो यद्वदन्त्यथवाऽप्येकेश्रतकेवलिनो यद्वदन्ति तद्यथार्थभाषित्वादेकमेव, एकेषां सर्वार्थप्रत्यक्षवादपरेषां तदुपदेशप्रवृत्तेरिति, वक्ष्यमाणेऽप्येक
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
४४०४४
॥३५॥
.