SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ भीआचाराङ्गवृत्तिः (शीलाङ्का.) ॥ ३६४ ॥ संयमावधिभूतया निकेत भूताः - आश्रया वङ्कानिकेताः वङ्को वा निकेतो येषां ते वङ्कानिकेताः पूर्वपदस्य दीर्घत्वं, ये चैवम्भूतास्ते 'कालगृहीताः कालेन -मृत्युना गृहीताः कालगृहीताः, पौनःपुन्यमरणभाज इत्यर्थः, धर्मचरणाय वा गृहीतः - अभिसन्धितः कालो यैस्ते कालगृहीताः, आहिताग्निदर्शनादार्षत्वाद्वा निष्ठान्तस्य परनिपातः तथाहि - पाश्चात्ये वयसि परुत्परारि वा अपत्यपरिणयनोत्तरकालं वा धर्म्म करिष्याम इत्येवं गृहीतकालाः, ये चैवम्भूतास्ते निचये निविष्टानिचय कर्म्मनिचये तदुपादाने वा सावद्यारम्भनिचये निविष्टा:- अध्युपपन्नाः, ये चेच्छाप्रणीता वङ्कानिकेताः कालगृहीता निचये निविष्टास्ते तद्धर्माण: किमपरं कुर्वन्तीति दर्शयितुमाह - 'पुढो पुढो ' इत्यादि, पृथक्पृथगे केन्द्रिय द्वीन्द्रियादिकां जातिमनेकशः 'प्रकल्पयन्ति' प्रकुर्वन्ति, पाठान्तरं वा 'एत्थ मोहे पुणो पुणो' 'अत्र' अस्मिन्निच्छाप्रणीतादिके हृषीकानुकूले मोहे करूपे वा मोहे निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन तदप्रच्युतिः स्यात् ॥ तदप्रच्युतौ च किं स्यादिन्याह इहमेगेसिं तत्थ तत्थ संथवो भवइ अहोववाइए फासे पडिसंवेयंति, चिट्ठ कम्मेहिं कूरेहिं चिट्ठ परिचिह्न, अचिडं कूरेहिं कम्मेहिं नो चिट्ठ परिचिहह, एगे वयंति अदुवावि नाणी, नाणी वयंति अदुवावि एगे ।। सू० १३२ ।। 'इह' अस्मिंश्चतुर्द्दशरज्ज्वात्मके लोके 'एकेषां' मिध्यात्वाविरतिप्रमादकषायवतां 'तत्र तत्र' नरकतिर्यग्गत्यादिषु यातनास्थानकेषु 'संस्तवः' परिचयो भूयोभूयोगमनाद्भवति, ततः किमित्याह - 'अहोववाइए' इत्यादि, त एव- ****** सम्य० ४ उद्देशः २ ॥ ३६४ ॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy