________________
चिलातिपुत्रादय इव अथवा प्रमत्ता विषयाभिष्वङ्गादिना शालिभद्रादय इव तथाविधकर्म झयोपशमापनेर्यथा प्रतिपद्यन्ते तथाऽऽचष्टे, यदिवाऽऽर्ताः-दुःखिनः प्रमत्ता:-सुखिनः, तेऽपि प्रतिपद्यन्ते धर्म, किं पुनरपरे ? अथवा आर्ताःरागद्वेषोदयेन प्रमत्ता विषयैः, ते च तीथिका गृहस्था वा संसारकान्तारं विशन्तः कथं भवतां विज्ञातज्ञेयानां करुणास्पदानां
रागद्वेषविषयामिलापोन्मूलनाय न प्रभवन्ति । एतच्चान्यथा मा मस्था इति दर्शयितुमाह-'अहा सच्च' मित्यादि, इदं R| यन्मया कथितं कथ्यमानं च तद्यथा-मत्यं, याथातथ्यमित्यर्थः, इत्येतदहं ब्रवीमि, यथा दुर्लभमवाप्य सम्यक्त्वं चारित्र
परिणाम वा प्रमादो न कायः, स्यात्-किमालम्ब्य प्रमादो न कार्यस्तदाह-'नाणागमो' इत्यादि, न धनागमो मृत्योमुखस्य कस्यचिदपि संसारोदरवर्तिनोऽस्तीति, उक्तं च-"वदत यदीह कश्चिदनुसंततसुखपरिभोगलालितः। प्रयत्नशतपरोऽपि विगतव्यथमायुरवाप्तवान्नरः ॥ १॥ न खलु नरः सुरौघसिद्धासुरकिन्नरनायकोऽपि यः। सोऽपि कृतान्तदन्तकुलिशाक्रमेण कृशितो न नश्यति ॥२॥" तथोपायोऽपि मृत्युमुखप्रतिषेधस्य न कश्चिदस्तीति, उक्तं च "नश्यति नौति याति वितनोति करोति रसायनक्रियां, चरति गुरुवतानि विवराण्यपि विशति विशेषकातरः। तपति तपांसि स्वादति मितानि करोति च मन्त्रसाधन, तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते ॥१॥" ये पुनर्विषयकषायाभिष्वङ्गात् प्रमत्ता धर्म नावबुध्यन्ते ते किम्भूता भवन्तीत्याह-'इच्छा' इत्यादि, इन्द्रियमनोविषयानुकूला प्रवृत्तिरिहेच्छा तया विषयाभिमुखमभिकर्मबन्धं संसाराभिमुखं वा प्रकर्षेण नीता इच्छाप्रणीताः, ये चैवम्भूतास्ते 'कानिकेता' वङ्कस्य-असंयमस्य आ-मर्यादया: