________________
॥३६१॥
ज्ञानावरणीयं कर्म बध्यते, एवं दर्शनप्रत्यनीकतया यावदर्शनविसंवादेन दर्शनावरणीयं कर्म बध्यते, तथा प्राणिनामनुकम्पनतया भतानुकम्पनतया जीवानुकम्पनतया सत्वानुकम्पनत्वेन बहूनां प्राणि नामदुःखोत्पादनतया अशोचनतया अजरणतया अपीडनतया अपरितापनतया सातावेदनीयं कर्म बध्यते, एतद्विपर्ययाच्चासातावेदनीयमिति, तथाऽनन्तानुवन्ध्युत्कटतया तीव्रदर्शनमोहनीयतया प्रबलचारित्रमोहनीयसद्भावान्मोहनीयं कर्म वम्यते, महारम्भतया महापरिग्रहतया पवेन्द्रियवधात कुणिमाहारेण नरकायुष्कं बध्यते, मायावितया अनृतवादेन कूटतुलाकूटमानव्यवहारातिर्यगायुर्वध्यते, प्रकृतिविनीततया सानुक्रोशतया अमात्सर्यान्मनुष्यायुष्क, सरागसंयमेन देशविरत्या बालतपसा अकामनिर्जरया देवायुकमिति. कायर्जु तया भावजुतया भाषर्जु तया अविसंवादनयोगेन शुभनाम बध्यते, विपर्यवाच्च विपर्यय इति, जातिकुलबलरूपतप:श्रतलामेश्वर्यमदाभावादुच्चेर्गोत्रं, जात्यादिमदात परपरिवादाच्च नीचैर्गोत्रं, दानलाभभोगोपभोगवीर्यान्तरायविधानादान्तरायिकं कर्म बध्यते, एते ह्यास्रवास साम्प्रतं परिस्रवाः प्रतिपाद्यन्ते-अनशनादि सबाह्यभ्यन्तरं तप इत्यादि, एवमास्रवकनिर्जरकाः सप्रभेदा जन्तवो वाच्याः, सर्वेऽपि च जीवादयः पदार्था मोक्षावसना वाच्याः। एतानि च पदानि सम्बुध्यमानस्तीर्थकरगणधरेर्लोकमभिसमेत्य पृथक पृथक् प्रवेदितम् , अन्योऽपि तदाज्ञानुसारी चतुर्दशपूर्वविदादिः सत्त्वहिताय परेभ्य आवेदयतीत्येतदर्शयितुमाह
आघाइ नाणी इह माणवाणं संसारपउिवण्णाणं संबुज्झमाणाणं (भाघाइ धम्म खल से जीवाणं, तंजहा-संसारपडिवन्नाणं माणसभवत्थाणं आरंभविणईणं दुक्खुव्वेअ