SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ भीआचाराङ्गवृत्तिः (शीलाका.) ॥ ३६॥ प्रतिषेधपर्यवसानतया परिस्रवा इत्यनेन सह सम्बन्धाभावात् पर्युदासोऽयम् , आम्रवेभ्योऽन्येऽनास्रवाः-व्रतविशेषाः, तेऽपि सम्य. ४ कम्र्मोदयादशुभाध्यवसायिनोऽपरिस्रवाः कर्मणः, कोकणार्यप्रभृतीनामिवेति, तथाऽपरिस्रवाः-पापोपादानकारणानि उद्देशक: २ केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येवानास्रवाः-कर्मबन्धाय न भवन्ति, यदिवा आस्रवन्तीत्यास्रवाः, पचायच, एवं परिस्रवन्तीति परिस्रवाः, अत्र चतुर्भङ्गिका-तत्र मिथ्यात्वाविरतिप्रमादकपाययोगैर्य एव कर्मणामास्रवाः-बन्धकाः त एवापरेषां परिस्रवाः-निर्जरकाः, एते च प्रथमभङ्गपतिताः सर्वेऽपि संसारिणश्चतुगतिका, सर्वेषां प्रतिक्षणमुभयसद्भावात , तथा ये आस्रवास्तेऽपरिस्रवा इति शून्योऽयं द्वितीयभङ्गको, बन्धस्य शाटाविनाभावित्वाद् , एवं येऽनास्रघास्ते परिस्रवाः, एते चायोगिकेवलिनस्तृतीयभङ्गपतिताः, चतुर्थभङ्गपतितास्तु सिद्धाः, तेषामनास्रवत्वादपरिस्रवत्वाच्चेति, अत्र चाद्यन्तमङ्गको सूत्रोपाचौ, तदुपादाने च मध्योपादानस्यावश्यंभावित्वात् मध्यभङ्गकद्वयग्रहणं द्रष्टव्यमिति । यद्येवं ततः किमित्याह-एए पए' इत्यादि, एतानि-अनन्तरोक्तानि पद्यते-गम्यते येभ्योऽर्थस्तानि पदानि, तद्यथा-ये आस्रवा इत्यादीनि, पदस्य चार्थावगत्यर्थ शब्दप्रयोगादेतत्पदवाच्यानांश्च सम्यगअविपर्यासेन बुध्यमानस्तथा 'लोक' जन्तुगणमानवद्वारायातेन कर्मणा बध्यमानं तपश्चरणादिना च मुच्यमानमाज्ञयातीर्थकरप्रणीतागमानुसारेणाभिसमेत्य-आभिमुख्येन सम्यक् परिच्छिद्य चशब्दो भिन्नक्रमः पृथक प्रवेदितं चाभिसमेत्य पृथगास्रवोपादानं निर्जरोपादानं चेत्येतच्च ज्ञात्वा को नाम धर्माचरणं प्रति नोद्यच्छेदिति ?, कथं प्रवेदितमिति चेत्, ॥३०॥ तदुच्यते, आस्रवस्तावज्ज्ञानप्रत्यनीकतया ज्ञाननिहवेन ज्ञानान्तरायेण ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादेन ।
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy