________________
॥ ३५६ ॥
अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिचा पुढो पवेइयं ॥ सू० १३० ॥
'य' इति सामान्यनिर्देशः, आश्रवत्यष्टप्रकारं कर्म्म यैरारम्भैस्ते आस्रवः, परि:- समन्तात्स्रवति - गलति यैरनुष्ठान - विशेषैस्ते परिस्रवाः, य एवास्रवाः - कर्म्मबन्धस्थानानि त एव परिस्रवाः - कर्म्मनिर्जरास्पदानि, इदमुक्तं भवति यानि इतरजनाचरितानि स्रगङ्गनादीनि सुखकारणतया तानि कर्म्मबन्धहेतुत्वादास्रवाः पुनस्तान्येव तत्रविदां विषयसुखपराङ्मुखानां निःसारतया संसारसरणिदेश्यानीति कृत्वा वैराग्यजनकानि अतः परिस्रवाः - निर्जरास्थानानि । सर्ववस्तूनामनैकान्तिकतां दर्शयितुमेतदेव विपर्ययेणाह - 'जे परिस्सया' इत्यादि, य एव परिस्रवाः - निर्जरास्थानानि - अर्हत्साधुतपश्वरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि तान्येव कम्र्मोदयादवष्टब्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तसार्थवाहस्य जन्तोर्महाशातनावतः सातर्द्धिरसगारवप्रवणस्यास्रवा भवन्ति पापोपादानकारणानि जायन्ते इदमुक्तं भवति यावन्ति कर्मनिर्जरार्थं संयमस्थानानि तद्बन्धनायासंयमस्थानान्यपि तावन्त्येव, उक्तं च- " यथाप्रकारा यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्यासान्निर्वाणसुखहेतवः ॥ १ ॥" तथाहि - रागद्वेषवासितान्तःकरणस्य विषयसुखोन्मुखस्य दुष्टाशयत्वात्सर्वं संसाराय, पिचुमन्दरसवासितास्यस्य दुग्धशर्करादिकटुकत्वापत्तिवदिति, सम्यग्दृष्टेस्तु विज्ञातसंसारोदन्वतः न्यक्कृतविषयाभिलाषस्य सर्वमशुचि दुःखकारणमिति च भावयतः सञ्जातसंवेगस्येतरजनसंसारकारणमपि मोक्षायेति भावार्थः । पुनरेतदेव गतप्रत्यागतसूत्रं सप्रतिषेधमाह - 'जे अणासवा' इत्यादि, प्रसज्यप्रतिषेधस्य क्रिया
॥ ३५६ ॥