SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ भीआचारावृत्तिः (चीलावा.) सम्य.४ उद्देशकः? ३५६॥ वाच्यमपि तथैवेति दर्शयति-तथा चैतद्वस्तु यथा भगवान् जगाद, यथा-सर्वे प्राणा न हन्तव्या इत्यादि, एवं सम्यग्दर्शनं श्रद्धानं विधेयम् , एतच्चास्मिन्नेव मौनीन्द्रप्रवचने सम्यग्मोक्षमार्गविधायिनि समस्तदम्भप्रबन्धोपरते प्रकर्षणोच्यते प्रोच्यत इति, न तु यथा अन्यत्र 'न हिंस्यात्सर्वभूतानी'त्यभिधायान्यत्र वाक्ये यज्ञपशुवधाभ्यनुज्ञानात् पूर्वोत्तरबाधेति ॥ तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यद्विधेयं तदर्शयितुमाह तं आइतु न निहे न निक्खिवे जाणित्तु धम्मं जहा तहा, दिहिं निव्वेयं गच्छिज्जा, नो लोगस्सेसणं 'चरे ॥ सू० १२७ ॥ 'तत्' तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय-गृहीत्वा तत्कार्याकरणतो 'न निहेति न गोपयेत् तथाविधसंसर्गादिनिमित्तोत्थापितमिथ्यात्वोऽपि जीवसामर्थ्यगुणान्न त्यजेदपि, यथा वा शैवशाक्यादीनां गृहीत्वा व्रतानि पुनरपि व्रतेश्वरयागादिविधिना गुरुसमीपे निक्षिप्योत्प्रव्रजनं, एवं गुर्वादेः सकाशादवाप्य सम्यग्दर्शनं 'न निक्षिपेत्' न त्यजेत् , किं कृत्वा ?-यथा तथाऽवस्थितं धर्म ज्ञात्वा श्रुतधर्म चारित्रात्मकमवगम्य, वस्तूनां वा धर्म-स्वभावमवबुध्येति । तदवगमे तु किं चापरं कुर्यादित्याह-'दि?हिं' इत्यादि, दृष्टरिष्टानिष्टरूपैनिर्वेदं गच्छेद्, विरागं कुर्यादित्यर्थः, तथाहिशब्दैः श्रतः रसैरास्वादितैर्गन्धैराघ्रातः स्पर्शः स्पृष्टः सद्भिरेवं भावयेत्-यथा शुमेतरता परिणामवशाद्भवतीत्यतः कस्तेषु रागो द्वेषो वेति । किं च-'नो लोयस्स' इत्यादि, 'लोकस्य' प्राणिगणस्यैषणा-अन्वेषणा इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु च हेयबुद्धिस्ता 'न चरेत्' न विदध्यात् ॥ यस्य चैषा लोकेषणा नास्ति तस्यान्याप्यप्रशस्ता मतिर्नास्तीति दर्शयति पहा
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy