________________
॥३५५॥
छप्पिय जीवनिकाए णोवि हणे णोऽविअहणाविजानोऽवि अअणुमनिज्जा सम्मत्तस्सेस निजुत्ती॥२२७॥
[चतुर्थेऽध्ययने प्रथमोद्देशकनियुक्तिः] गाथाद्वयमपि कण्ठ्यं । तीर्थकगेपदेशश्च परोपकारितया तत्स्वाभाव्यादेव प्रवर्त्तमानो भास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रवर्त्तते(तत् तद्यथेत्यादिना दर्शयति-तंजहा-उहिएसु वा' इत्यादि, धर्माचरणायोद्यता उत्थिता-ज्ञानदर्शनचारित्रोद्योगवन्तः, तद्विपर्ययेणानुत्थिताः तेषु निमितभूतेषु तानुद्दिश्य । भगवता सर्ववेदिना त्रिजगत्पतिना धर्मः प्रवेदितः, एवं सर्वत्र लगयितव्यं, यदिवा उत्थितानुत्थितेषु द्रव्यतोपि निषण्णानिषण्णेषु, तत्रैकादशसु गणधरेपूस्थितेष्वेव वीरवर्द्धमानस्वामिना धर्मः प्रवेदितः, तत उपस्थिता धम॑ शुश्रुषवो जिघृक्षवो वा तद्विपर्ययेणानुपस्थितास्तेष्विति, निमित्तसप्तमी चेयं, यथा चर्मणि द्वीपिनं हन्तीति, ननु च भावोपस्थितेषु चिलातिपुत्रादिष्विव धर्मकथा युक्तिमती अनुपस्थिनेषु तु के गुणं पुष्णाति ?, अनुपस्थितेष्वपीन्द्रनागादिषु विचित्रत्वात्कर्मपरिणतेः क्षयोपशमापादनाद्गुणवत्येवेति यत्किञ्चिदेतत् , प्राणिन आत्मानं वा दण्ड यतीति दण्डः, स च मनोवाक्कायलक्षणः, उपरतो दण्डो येषां ते तथा, तद्विपर्ययेणानुपरतदण्डाः , तेषूभयरूपेष्वपि, तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्तराधानार्थ देशना, इतरेषु तूपरतदण्डत्वार्थमिति, उपधीयते-सगृह्यत इत्युपधिः, द्रव्यतो हिरण्यादिः भावतो माया, सह उपधिना वर्तन्त इति सोपधिकास्तद्विपर्ययेणानुपधिकास्तेष्विति, संयोगः-सम्बन्धः पुत्रकलत्रमित्रादिजनितस्तत्र रताः । संयोगरतास्तद्विपर्ययेणैकत्वभावनामाविता असंयोगरतास्तेष्विति, तदेवमुभयरूपेष्वपि यद्भगवता धर्मदेशनाऽकारि तत् तथ्य' सत्यमेतदिति, चशब्दो नियमार्थः, तथ्यमेवैतद्भगवद्वचनं, यथाप्ररूपितवस्तुसद्भावात्तथ्यता वचसो भवतीत्यतो
वा तद्विपर्ययेणाथा युक्तिमती
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀܀܀܀܀܀܀܀
यत्किञ्चिदेतत् , HIT तेषूभयरूपेष्वपि
३५५