SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ॥३५७॥ जस्स नस्थि इमा जाई अपणा तस्स कओ सिया, दिद्वं सुयं मयं विण्णायं जं एयं परिकहिज्जइ, समेमाणा पलेमाणा पुणो पुणो जाई पकप्पंति ॥ सू० १२८॥ यस्य मुमुक्षोरिमा ज्ञातिः-लोकेषणाबुद्धिः 'नास्ति' न विद्यते, तस्यान्या सावद्यारम्भप्रवृत्तिः कुतः स्यात् ?, इदमुक्तं भवति-भोगेच्छारूपां लोकैषणां परिजिहीर्षोनैव सावद्यानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात्तस्या इति, यदिवा 'इमा' अनन्तरोक्तत्वात् प्रत्यक्षा सम्यक्त्वज्ञातिः प्राणिनो न हन्तव्या इति वा यस्य न विद्यते तस्यान्या विवेकिनी बुद्धिः कुमार्गसावद्यानुष्ठानपरिहारद्वारेण कुतः स्यात् ।। शिष्यमतिस्थैर्यार्थमाह-विट्ठ'मित्यादि, यदेतन्मया परिकथ्यते तत्सर्वज्ञैः केवलज्ञानावलोकेन दृष्टं, ततः शुश्रूषुभिः श्रुतं, लघुकर्मणां भव्यानां मतं, ज्ञानावरणीयझयोपशमाद्विशेषेण ज्ञातं विज्ञातम् , अतो भवताऽपि सम्यक्त्वादिके मत्कथिते यत्नवता भवितव्यमिति । ये पुनर्यथोक्तकारिणो न स्युः ते किम्भूता भवेयुरित्याह-'समेमाणा' इत्यादि, तस्मिन्नेव मनुष्यादिजन्मनि शाम्यन्तो' गाय॑नात्यर्थमासेवां कुर्वन्तः तथा 'प्रलीयमाना' मनोज्ञेन्द्रियार्थेषु पौनःपुन्येनैकेन्द्रियद्वीन्द्रियादिकां जाति प्रकल्पयन्ति, संसाराविच्छित्ति विदधतीत्यर्थः ॥ यद्येवमविदितवेद्याः साम्प्रतक्षिणो यथाजन्मकृतरतय इन्द्रियार्थेषु प्रलीनाः पौनःपुन्येन कृतजन्मादिसन्धाना जन्तवस्ततः किं कर्त्तव्यमित्याह अहो अराओ य जयमाणे धीरे सया आगयपण्णाणे पमत्ते बहिया पास अप्पमत्त सया परिक्कमिजासि त्तिबेमि ॥ सू० १२६ ॥ इति प्रथमोद्देशकः ॥४-१॥ ॥३५७॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy